योगशास्त्रस्य माहात्म्यम् 
        *****************

"हिरण्यगर्भो योगस्य वक्ता नान्यःपुरातनः" इति वचनात् योगशास्त्रमतीव प्राचीनमिति प्रतीयते।तस्मादेवकालाद् गुरुशिष्यपरम्परा -क्रमेणागतस्य योगशास्त्रस्याऽनूशासनं महर्षिपतञ्जलिना विहितम्।

सांख्यस्वीकृतपञ्चविंशतितत्वातिरिक्तत्वरूपेण ईश्वरस्य ग्रहणाद् योगदर्शनस्य सेश्वरसांख्यदर्शनमितिनामान्तरसत्वेऽपि दर्शनेऽस्मिन् योगस्येव प्राधान्यमनुभूयते । स च योग चित्तवृत्तिनिरोधरूप इति सर्वानुभवसिद्धः

साम्प्रतिक युगे न केवलमस्मिन् भारतवर्षेऽपि तु देशान्तरेष्वपि योगशास्त्रस्य समादरः दरीदृश्यते योगदर्शनं सर्वप्राचीनं महत्वपुर्णदर्शनश्च।

"हिरण्यगर्भो योगस्य वक्ता नान्यःपुरातनः" इति वचनात् दर्शनस्यानादिता सिद्धयति।योगः समाधिरिति भाष्यवचनाद् योगसमाध्योर्मध्ये व्याप्यःव्यापकभावः स्पष्टः।केवल चित्तवृत्तिनिरोधे न समाधिसिद्धिः आत्मनः स्वचिन्मात्र- स्वरुपेणैवावस्थानेन योगसिद्धिः।समाधिर्नाम मनसः निरोधावस्था।कैवल्यप्राप्त्यर्थमयं सर्वश्रेष्ठोपायः।

एत्तद्दर्शनं चित्तमलविनाशकरं भवति। अस्माकं शरोरमध्ये चित्तमेवं प्रधानं भवति व्यवहारिकदृष्ट्या चित्तस्य वहुनि नामानि भवन्ति।कुत्र वुद्धिः कुत्र मनश्चेत्यादि। 'मन एव मनुष्याणां कारणं वन्धमोक्षयोः'।

वन्धाय विषयासक्तं मुक्त्यै निर्विषयं मनः।। योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।। योऽपाकरोतं प्रवरं मुनिनांपतञ्जलिं प्राञ्जलिरानतोऽस्मि।। पुराणप्रसिद्धस्य भारतवर्षस्य आकन्याकुमारी हिमालयं तीर्थधाम देवादिनां सुपवित्रस्थानानि विराजन्ते।पुर्वादिचतसृसु दिक्षुः चत्वारि धामानि। पुर्वभागे श्रीजगन्नाथधाम, दक्षिणभागे श्रीरामेश्वरधाम, पश्चिमभागे श्रीद्वारिकानाथधाम,उत्तरभागे श्रीवद्रिकाचाथधाम च विराजन्ते ।

दर्शनेषु योगशास्त्रं प्रधानं भवति। मानवस्य योगशास्त्रं चित्तशोधनशास्त्रं,चित्तनिरोधानन्तरमेव साधनानि क्रियन्ते।अतः प्रथमस्तावत चित्तवृत्तिनिरोधः करणीयः। तत्र महर्षिणा व्यासदेवेन योगभाष्यं कृतम् ।तस्योपरि तत्ववैशारदी योगवार्तिकम् भास्वती पातञ्जलरहस्य योगसुधाकरमणिप्रभा राजमार्तण्डवृत्तिश्चेति टीकाः दृश्यन्ते । परन्तु योगसुत्रोपरि सदाशिवेन्द्रसरस्वती-आचार्यरामानन्दाभ्यां विरचितयोगसुधाकरमणिप्रभाटीकयोःतुलनात्मकमध्ययनं महत्वं नितरां वर्तते ।


योगशास्त्रस्येतिहासिकतया महत्वम्-- समस्तास्तिकनास्तिकभारतीयपाश्चात्यदर्शनेषु योगदर्शनस्य स्थानं प्रधानतया दृश्यते सर्वदर्शनानां चोद्देश्यं जीवानामात्यन्तिक-दुःखनिवृत्तिप्रदानमेवास्ति । तस्या आत्यान्तिकदुःखनिवृत्तिरिति प्रदर्शितम्।ज्ञानादेव भिन्न भिन्न साधनेभ्यो भवतीत्युपायाः प्रदर्शिताः किन्वास्तिकदर्शनेषु ज्ञानादेव दुःखनिवृत्तिरिति प्रदर्शितम् । ज्ञानादेव तु केवल्य तस्य ज्ञानस्य परिभाषा भिन्नतया वर्तते यथा-

नैयायिकाषोडशपदार्थविज्ञानादिति,वैशेषिकाःसप्तपदार्थविज्ञानादिति।वेदान्तिनो जीवव्रह्मैक्यापरोक्षानुभुत्या,साङ्ख्याः प्रकृतिपुरुषविवेकख्यात्या इति। अपि च श्रृति-'ऋते ज्ञानान्न मुक्तिः'। पदार्थेनांमिदं शुद्ध ज्ञानं भवति । विभिन्नदर्शनशास्त्रेषु तत्वज्ञानं,सम्यक् ज्ञानं तत्वसाक्षात्कारः परमविज्ञानम्, पलमसंख्यानम्,विवेकख्यातिः,इत्यादि नामानि कथ्यन्ते । इदमेव विशुद्धविज्ञानं मोक्षस्य परस्य प्रापकमिति ध्यायिनां विचारः विद्यते। योगिनो हि सांख्यदर्शनाभिमतामेव सृष्टि प्रक्रियां तदभिमतान्येव तत्वानि तदङ्गीकृतान्येव त्रीणी प्रमाणानि चाभ्युपगच्छ्न्तः केवलम् तद्विलक्षणम्।"क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुष विशेष ईश्वरः"इति लक्षणलक्षितमीश्वरम् स्वीकृत्य दर्शनं नास्तिकताकलङ्गपङ्गः क्षालयाम्वुभुवुः।अपि च चितवृतिनिरोधरूपसमाधिसम्प्रज्ञातासंप्रज्ञाततत्वाभ्यां सविकल्पक निर्विकल्पकत्वापरपर्यायं द्विधा भिद्दमानं कैवल्यं मन्वते।चितवृतिनिरोधरूपस्य योगस्य यमनियमासनप्राणायाम प्रत्याहारधारणाध्यानसमाधयोअष्टाबगांनि च स्वीकुर्वन्ति। योगस्य प्राधान्येन कैवल्यफलकत्वेप्यवान्तरफलानि विभुतयो विजृम्भते । अतः श्रीमद्भगवतगीतायां भगबान् श्रीकृष्णः कथयति -

यत्रोपरमते चितं निरूद्धं योगसेवया । यत्र चैवात्मनात्मनं पश्यन्नात्मनि तुष्यति।

योगस्य माहत्म्यं सांख्यतत्वकौमुद्यामपि दृश्यते।यथा सात्विकया तु वुद्धया तदार्थस्य मनाक् सम्भेदो दृश्यते। 
           
             समाप्तम्