=== भारतीय दर्शन संप्रत्यय: ===
       मनुष्यः स्वभावतो मननशील : प्राणी विद्यते । मत्वा कर्माणि सीव्यतीति तन्निरुक्तिरपि पूर्वोक्तानुकूला । स हि कोऽहं कस्मादहमित्यादिसमस्याः सततं भावयित्वा ' आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' इति दर्शनबीजमुद्भावितवान् । आत्मदर्शनायैव सर्वाणि दर्शनानि प्रवृत्तानि । आत्म दर्शनं दुःखनिवृत्तयेऽपेक्षितं , दुःखनिवृत्तिरेव च सर्वैरभीप्सिता ।
     
        === चार्वाकवर्शनम् ===

चार्वाकदर्शनस्य बीजं वेदेषु वर्तमानमासीत्- 'न प्रेत्य संज्ञाऽस्ति' - मरणात् परतः किमपि नास्ति । 'भस्मीभूतस्य देहस्य पुनरागमनं कुतः ? ' इयमेव पूर्व पक्षीयविचारधारा चार्वाकदर्शनस्य मूलम् ।

      इमे चार्वाकाः परलोकं न मन्यन्ते , शरीरमेवात्मानं स्वीकुर्वन्ति । इदमेव दर्शनं लोके बाहुल्येन प्रचरितत्वात् लोकायतदर्शननाम्नाऽपि व्यवहृतम् । बुद्धिवाद एवामी आस्थाभाजः , वितण्डैव चैषां कथासाधनम् । तथा चोक्तं जयन्तभट्टेन-
      'नहि लोकायते किञ्चत् कर्त्तव्यमुपदिश्यते । 
       वैतण्डिककथैवासौ न पुनः कश्चिदागमः ॥ 
   चारुः वाक् ' इति निर्वचनं चार्वाकशब्दस्य । बृहस्पतिप्रणीतमिदं दर्शनम् । बार्हस्पत्यानि सूत्राणि वेदान्तसूत्रीयभाष्ये श्रीधरी नीलकण्ठीप्रभृतिगीताटीकासु चोपलभ्यन्ते तथा-
     'अथ लोकायतम् ।' ‘पृथिव्यप्तेजोवायुरिति तत्त्वानि ।  तत्समुदाये शरीरेन्द्रियविषयसंज्ञा ' । ' तेभ्यश्चैतन्यं ' ' किण्वादिभ्यो मदशक्तिवद् विज्ञानम् ।  चैतन्यविशिष्टः कायः पुरुषः ।  काम एवैकः पुरुषार्थः।'मरणमेवापवर्गः।'एतानि सूत्राणि बृहस्पतेराचार्यस्य प्राचीनतां गमयन्ति, तदीयं सिद्धान्तं स्थिर यन्ति च। अयमर्थशास्त्रप्रणेतुबृहस्पतेरभिन्न एव ।        
    भासेन स्वीये प्रतिमानाटके बृहस्पतेरर्थशास्त्रस्योल्लेखः कृतः । बृहस्पति मर्थशास्त्रप्रणेतारं कौटिल्योऽपि स्वस्यार्थशास्त्रे स्मरति स्म । तदेवमस्य बृहस्प त्युपज्ञस्य दर्शनस्य प्राचीनत्वं समर्थितं भवति । 
  कतिचिद् अस्य दर्शनस्य मुख्याः सिद्धान्ताः-      
   प्रत्यक्षमेव केवलं प्रमाणम् , इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं हि तत् । शरीरमेव जीवः , श्यामोऽहं गौरोऽहम् इत्यादिकाः स्वरसवाहिन्यः प्रतीतयोऽपि देहमेव जीवत्वेन ग्राहयन्ति । सृष्टिः स्वभावत एव जायते , न तत्रेश्वरापेक्षा । ईश्वरो नास्त्यैव ।
      "यावज्जीवेत्सुखं जीवेदृणं कृत्वा घृतं पिबेत् ।
       भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ '
       त्याज्यं सुखं विषयसङ्गमजन्म पुंसां।
       दुःखोपसृष्टमिति मूर्खविचारणैषा।  
       ब्रीहीन जिहासति सितोत्तमतण्डुलाढ्यान्।
       को नाम भोस्तुषकणोपहितान् हितार्थी।।' 
          === बौद्ध दर्शनम् ===
    बौद्धदर्शनम् जैनदर्शनादुत्तरकाले प्रचरितमभवत् । बौद्धदर्शनग्रन्थेषु जैना मन्तिमतर्थङ्करस्य नाटपुत्तस्य नामोल्लेखः सिद्धान्तालोचनं च दृश्यते । नग्रन्थेषु बौद्धदर्शनविषयकः कोऽपि तादृश उल्लेखो न विद्यते , अतो बौद्ध र्शनस्य जैनदर्शनोत्तरकालिकत्वं प्रतीयते ।
           बौद्धदर्शनस्य भागद्वयं धार्मिको भागः दार्शनिकश्च भागः । तत्र धार्मिकभागे नाध्यात्मिकतत्त्ववर्णनम् आचारनिरूपणं च प्रपञ्चितम् , दार्शनिकभागे तु तार्किकदृष्ट्या बौद्धसिद्धान्तस्य सूक्ष्मं विवेचनं प्रस्तुतम् । 
           गौतमबुद्धस्य चरितं सर्वविदितम् । तेन ५२८ ई ० पू ० समये ज्ञानोदयं प्राप्य बुद्धपदवी प्राप्ता । ततः स सारनाथनामके स्थाने भिक्षुभ्यः उपदेशं प्रदाय धर्मचक्र प्रवर्त्तयामास । आयुषोऽशीतितमे वर्षे मल्लगणतन्त्रस्य राजधान्यां कुशीनगरे निर्वाणं प्राप्तः । एतस्य जन्म बुद्धत्वप्राप्तिनिर्वाणञ्चेति तिस्रोऽपि घटना वैशाखपूर्णिमायामेव जाता इति महत्कुतूहलावहम् ।
         बौद्धदर्शनस्य प्रधानविषयाः - रूपविज्ञानवेदनासंज्ञासंस्कारनामकस्कन्ध पञ्चकमेवात्मा न तदन्यः । सोऽयं बौद्धानां नैरात्म्यवादो मिलिन्दप्रश्ने साधु निरूपितः । बौद्धानां मते जीवो जगच्चेत्युभयमपि अनित्यं प्रतिक्षणपरिणामशालि च । यथा दीपशिखाऽनुपलं परिणमन्तो अपि एकैव प्रतीयते तथैव जीवा जगच्च परिणमति । प्रतिक्षणपरिणामिनो हि भावाः । 
        === जैनदर्शनम् ===
     जैनदर्शनं बौद्धदर्शनात् पूर्वतनम् । जैनदर्शनं प्राक्  'निगण्ठ ' शब्देन व्यव हियते स्म । निगण्ठशब्दो ग्रन्थान्निर्गतो निर्गन्थ इति संस्कृतशब्दस्य पाली भाषायां रूपान्तरम् । अत्र दर्शने सिद्धपुरुषाः ' अर्हत् ' शब्देनाभिधीयन्ते । अत एवेदं दर्शनमार्हतदर्शनमप्युच्यते । महावीरेण रागादिरिपवो जिता इत्यसो जिनशब्देनोक्तस्तदीयतया दर्शनमिदं जैनदर्शननाम्नाप्यभिहितम् । 
        जैनमतप्रचारकास्तीर्थकरा उच्यन्ते स्म । तीथंङ्करेष्वाद्यः ऋषभदेव नामाऽऽसीत् । महावीरश्वान्तिमः । पार्श्वनाथं विहायान्येषां मध्यत्तिनां तीर्थङ्क राणां विशिष्टः परिचयो न लभ्यते ।
         वर्धमानमहावीर इतिहासप्रसिद्ध एव पुरुषः , पाश्वनाथः पुनः काशिराजस्य अग्रसेनस्य पुत्रः । पार्श्वनाथः वस्त्रपरिधानमनुमन्यते , महावीरस्तु नग्नत्वं सम र्थयति । दिगम्बरश्वेताम्बराख्य सम्प्रदायद्वयस्येदमेव बीजम् ।
        जैनसाहित्यमतिविपुलम् । अत्राचारग्रन्थापेक्षया प्रमाणग्रन्था एव भूयांसः । 
      जनदर्शने जीवस्य चैतन्यवत्त्वं स्वाभाविकञ्चानन्तज्ञानवत्त्वम् । प्राक्तन कर्मावरणपिहितत्वेन समावृतस्वरूपतयाभासमानो जीवः सम्यक्चारित्रस्वीकृत्या स्वं शुद्ध रूपं - कैवल्यं सर्वज्ञत्वं च प्राप्नोतीति संक्षेपतो विषयः । प्राचीनेऽपि जैनमते जैनदर्शनशास्त्रस्यारम्भकाल : प्रथमं शतकम् । अस्मिन्नेव समये उमास्वातिकुन्दकुन्दाचार्यसमन्तभद्रनामकैराचार्यैरस्य दर्शनशास्त्रस्य आधार शिला दृढीकृता । तत्त्वार्थसूत्रमत्रैव कालेऽरच्यत ।
       तदनन्तरं च बहवो ग्रन्था अरच्यन्त , यथा - देवनन्दिमहाभागस्य सर्वार्थ सिद्धिा , दिगम्बरस्य समन्तभद्रस्य सिद्धसेनदिवाकरस्य च गन्धहस्तीभाष्यम् , भट्टाकलङ्कस्य राजवात्तिकम् । जैनदर्शनस्य सर्वस्वभूता ग्रन्था इमे चत्वारः नियमसारः , पञ्चास्तिकायसारः , समयसारः , प्रवचनसारश्चेति । हरिभद्र विद्या नन्दप्रभृतयोऽप्याचार्याः प्रसिद्धाः ।
   
       === वैशेषिकदर्शनम् ===
  सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम् । एतत्प्रणेता कणादः कश्यप वंशोत्पन्नतया काश्यपशब्देनोक्तः। अयमेव मुनिः उलूक इत्यप्युक्तः-
    'विरुद्धासिद्धसन्दिग्धमलिङ्ग काश्यपोऽब्रवीत् ।' 
  महाभारते भीष्मपर्वण्युलूको नामर्षिणितः । अयमेव कणादः , कणभक्षः , कणभुक् चाख्यायते ।
  'न वयं षट्पदार्थवादिनो वैशेषिकवत् ' इति सांख्यसूत्रमतोऽयं साङ्ख्यात् प्राचीनः सिद्धः । 
   'महद्दीवद्वा ह्रस्वपरिमण्डलाभ्याम् । ' इत्यस्य व्याससूत्रस्य पर्यालोचनयाऽ स्य वेयासकदर्शनापेक्षया पूर्वकालिकत्वम् आयाति । 
   शब्दोत्पत्तिविनाशवाद एतदुक्तः ' कर्मैके तत्र दर्शनात् ' इत्यादिसूत्रअँमिनिना निरस्त इत्यस्य जैमिनेरपि प्राचीनता सिद्धा । 
   इदं दर्शनमौलूकदर्शननाम्नाऽप्युच्यते। तदुक्तं नैषधीये-
       'औलूकमाहुः खलु दर्शनं तत् क्षमं तमस्तत्त्वनिरूपणाय। 
   विशेषपदार्थस्वीकारमूलकमेवास्य दर्शनस्य वैशेषिकमिति नामकरणम् ।
       === न्यायदर्शनम् ===
    अतिप्राचीनं न्यायशास्त्रम् । अस्य शास्त्रस्य प्रवत्तंकः सूत्रकारो गौतमः ५०० ई ० पू ० समयेऽजायत । तेन सूत्राणि प्रणीतानि , षोडशपदार्थाश्चाभ्युपगताः प्रमाणप्रमेयाद्याः । गौतमप्रवत्तितं न्यायशास्त्रं पदार्थमीमांसाशास्त्रम् । एषां सूत्राणां भाष्यं द्वितीदशतकोत्पन्नेन वात्स्यायनेन प्रणीतं यद् वात्स्यायनभाष्य नाम्ना प्रसिद्धम् । वात्स्यायनस्योदयकालो ब्राह्मणधर्मबौद्धधर्मयोः सङ्घर्षस्य समय आसीत् । 
         === साङ्ख्यदर्शनम् ===
     सांख्यदर्शनस्याद्य आचार्यः कपिलः उपनिषत्कालिकः ऋषिः । तत्प्रणीतं सांख्यदर्शनं न प्राप्यते । तन्नाम्नैव प्रसिद्ध साङ्ख्यसूत्रं पञ्चमशतके केनचिदन्येन विदुषा निर्माय प्रचारितम् । कपिलस्य शिष्य आसुरिस्तस्य शिष्यः पञ्चशिखः । एषां ग्रन्था नोपलभ्यन्ते । ईश्वरकृष्णपर्यन्यं सांख्यशास्त्रीयपरम्परा लुप्तप्रायैव । ईश्वरकृष्णेन कारिकां प्रणीय शास्त्रमिदं पुनः सजीवतां गमितम् । अयं ग्रन्थो विक्रमप्रथमशतके निर्मितः । प्रसिद्धस्यास्य ग्रन्थस्य चीनभाषानुवादं षष्ठशतके परमार्थनामकविदुषा समपाद्यत । सोऽयमनुवादः सम्प्रत्यपि प्राप्यते । चीनभाषा नुवादोऽयं ' सुवर्णसप्तति ' नाम्नोच्यते । 
        === योगदर्शनम् ===
     योगः प्राचीन इत्यत्र नास्ति कस्यापि वैमत्यम् ।। योगक्रिया नानासिद्धीनां जननीत्यत्रापि नास्ति विवादः । योगद्वारैव प्रागृषयः प्रतिभानैर्मल्यद्वाराऽती तानागतव्यवहितानामपि प्रत्यक्षे प्रभवन्ति स्म । 'मोहजोदरो' नामकस्थाने जाते शोधकार्येऽनेका योगक्रियाप्रतिकृतय प्राप्ता याभिरस्य शास्त्रस्य प्राचीनता समर्थ्यते । अद्वयतारकामृतनादाद्युपनिषत्सु योगस्य विस्तृत विवेचनं प्राप्यते । प्राणविद्यानाम्ना श्रुतिष्वपि योगस्य प्रशंसा कृता । जनानाम् अङ्गेषु ' बौद्धानाम् ' त्रिपिटके ' च योगस्य भूयसो चर्चा विद्यते । नाथपथावलम्बिनस्तु हठयोगस्य तादृशं प्रचारमकृषत , यत् ते योगिन इति संज्ञयैव ख्याताः ।  
       === मीमांसादर्शनम् ===
    मीमांसायाश्चर्चा वेदस्य संहितायामुपनिषदि ब्राह्मणग्रन्थेषु च प्राप्यते । सोऽयं वेदे प्रयुज्यमानो मीमांसाशब्दो विचारार्थः । कौषीतकिब्राह्मणे " उदिते होतव्यमनुदिते होतव्यमिति मीमांसन्ते ' एवंविध उल्लेखः । समीक्षापद्धतिरिय विचारनाम्नाऽपि प्रसिद्धा । न्यायशब्दोऽप्यत्रार्थे प्रयुज्यते जैमिनीयन्यायमाला न्यायप्रकाशादौ । 
       किं मोमांसायाः प्रयोजनमित्यस्योत्तरमाह कुमारिल : श्लोकवात्तिके ' धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् ' इति । बादरायणेन कर्मफल दातेश्वरो मन्यते , परन्तु जैमिनिनां मीमांसायां कर्मण एव फलदातृत्व स्वजन्यापूर्वद्वारा प्रदर्शितम् । यज्ञाः समाप्ताः फलं च कालान्तरभावि , तत्कथं यागाः फलं दारतोऽपूर्वो नाम कोऽप्यतिशयः सञ्जायते कर्मभ्य इति स एव फलं जनयतीति मीमांसाशास्त्राशयः । अत एव मीमांसका निरीश्वरवादिनो घुष्यन्ते । 
       === वेदान्तदर्शनम् ===
     वेदान्तो वेदस्य अन्तः अवसानभागः इति विग्रहेण उपनिषद उच्यन्ते । उपनिषद एव प्राचीनै वेदान्तशब्देनोक्ताः । उपनिषदोऽनेकाः , तासु क्वचिदापाततो विरोधोऽपि प्रतिभासते । तस्यैव विरोधस्य दूरीकरणाय व्यासेन ब्रह्मसूत्राणि रचितानि । एतानि सूत्राणि पाणिनेरपि प्राचीनानि , यतः पाणिनिस्तानि-:
    'पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ' इत्यत्र सूत्रे भिक्षुसूत्राणि इति पदेन सस्मार । ' ब्रह्मसूत्रपदैश्चैव ' इति गीतायां ब्रह्मसूत्रपदेन तान्येववेदान्तसूत्राणि स्मृतानीति श्रीधरस्वामी । तदेवं तानि सूत्राणि ६०० ई ० पू ० समयतः पूर्वमेव तत्रैव वा सममे निर्मितानि । एषामेव ब्रह्मसूत्राणां व्याख्याभेदेन बहवो वेदान्तस्य शाखाः प्रचलिताः ।