प्रधानपुरुषविवेकः 

प्रधान-पुरुषयोः विवेकः इत्युक्ते प्रधान-पुरुषयोः भेदज्ञानम् इत्यर्थः। एतेन तयोः अभेदज्ञानमेव दुःखकारणम् इत्युक्तं भवति। अतः किं नाम प्रधानं, कश्च पुरुषः, किं तयोः स्वरुपमिति विचारणीयम्। सांख्यशास्त्रे तत्त्वानि चतुर्धा विभक्तानि। तानि केवलप्रकृतिः, प्रकृतिविकृतयः, केवलविकृतयः, न प्रकृतिः न विकृतिः इति। तत्र प्रथमं तत्त्वं प्रधानं मूलप्रकृतिः, प्रकृतिः इत्यादिशब्देन व्यवह्रियते, तदेव अन्येषां महदादि-त्रयोविंशतितत्त्वानां कारणीभूतं च वर्तते। इदं प्रधानं न कस्मादपि तत्त्वात् जायते किन्तु अन्यानि तत्त्वानि जनयति इत्यतः केवलप्रकृतिः इति कथ्यते। महत्तत्वं,अहङ्कारः,पञ्चतन्मात्राणि च पूर्वपूर्वतत्त्वेभ्यो जायन्ते,अन्यानि तत्त्वानि जनयन्ति इत्यतः प्रकृतिविकृतयः इति कथ्यन्ते। पञ्चभूतानि, पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, मनः इति षोडशतत्त्वानि अन्येभ्यः तत्त्वेभ्यः जायन्ते , किन्तु अन्यानि तत्त्वानि न जनयन्ति इत्यतः केवलविकृतयः इत्युच्यन्ते। अन्तिमं तत्त्वं वर्तते पुरुषः, सः न कस्मादपि जायते , न किमपि जनयति इत्यतः न प्रकृतिः न विकृतिः इत्युच्यते। तथा च कारिका-मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः।।इति इदं च प्रधानं सत्त्वरजस्तमोगुणात्मकम् अचेतनं च।पुरुषस्य भोगापवर्गार्थं पुरुषस्य सन्निधाने सति स्वत एव जगद्रूपेण परिणमते। यथा पुरुषस्य सन्निधाने अचेतनेषु रथयानादिषु प्रवृत्तिः द्दष्टा तथैव पुरुषस्य सन्निधाने मूलप्रकृतिः जगद्रूपेण परिणमते।अधिष्ठातारं विना कथं प्रधाने प्रवृत्तिः भवितुं शक्यते इति चेत् तत्र उक्तं सांख्यकारिकायां- वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रधानस्य। पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य।।इति। यथा अचेतनमपि क्षीरं वत्सस्य कृते प्रवर्तते , यथा वा अचेतना अपि नदी प्रवहति , यथा वा अचेतनो वायुः वाति तथैव पुरुषस्य मोक्षार्थम् इदं प्रधानं प्रवर्तते इति ।इदं च प्रधानं कार्यानुमेयं वर्तते।किन्तु पुरुषः तु प्रधानस्य विरुद्धस्वभावः। त्रिगुणात्मकं, जडं , सावयवं एकं च ।किन्तु पुरुषः निर्गुणः, चेतनः , निरवयवः , अनेकः च ।प्रधानपुरुषयोः वैधर्म्यमुक्तं कारिकायां- त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्।।इति। अयं च पुरुषः अविवेकवशात् निर्गुणोपि सगुण इव, निर्लिप्तोपि लिप्त इव अनुभवति। वस्तुतः सुखदुःखमोहकारणीभूताः सत्त्वरजस्तमोगुणाः प्रधाने वर्तन्ते, किंतु पुरुषे महत्तत्वस्य संयोगात् प्रधानस्य गुणपरिणामान् स्वस्मिन् अनुभवति पुरुषः। अयमनुभवः प्रकृति पुरुषयोः अध्यासनिमित्तः। इत्थं यदा पुरुषः प्रकृतिगतदोषान् ज्ञात्वा प्रकृतिरेव प्रवर्तते न तु अहं इति भेदेन अनुभवति, तेन तत्त्वाभ्यासेन दुःखं प्रधाननिमित्तं न तु वस्तुतः मयि इति विजानाति। तदानीं दुःखात् वियुक्तो भूत्वा कैवल्यम् अनुभवति। दुःखवियोगे सति प्रधानेन साकं संयोगोपि न भवति , सा एव अवस्था कैवल्यमित्युच्यते। तदेवोक्तं कारिकायां- तस्मात् न बदध्यते अद्धा न मुच्यते नापि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः।।इति । इत्थं एकवारं विवेकोदयः जायते चेत् पुनः तस्य पुरुषस्य विषये प्रकृतिः न प्रवर्तते । तस्मात् प्रकृतिपुरुषविवेक एव आत्यन्तिकं सर्वानर्थनिवर्तकं इति ।