दर्शनशास्त्रम्

दर्शन शब्दोऽयम् . संस्कृतस्य प्रेक्षणार्थकाद् दृश धातो : (दृशिर प्रेक्षणे ) ल्युट् प्रत्यये अनादेशे च कृते दर्शनम् इति सिद्धम् । "दृश्यते अनेन इति दर्शनम्" उपनिषत्सु सत्यस्य दर्शनाय दृश् धातो : प्रयोगोऽभवत्, अर्थात् ज्ञान चक्षुषा यद् आत्मेत्यादि  अलौकिकं वस्तु गृह्यते तद् दर्शनम् |अलौकिकं आत्मादितत्वं (आत्मा ,स्वर्ग, मुक्ति, प्रभृति वस्तु )येन तद् दर्शनम |

येन साधनेन इदं विश्वं, इदं वस्तुजातम् ब्रह्म,प्रकृतिश्च याथातथ्येन  दृश्यते निरीक्ष्यते परीक्ष्यते समीक्ष्यते विविच्यते च यत्र तद् दर्शनम् |

समग्रमपि आध्यात्मिकम् आधिभौतिकं च विवेचनं दर्शनशब्दान्तर्गतं भवति ।

दर्शनम् इत्यस्य आंग्लपदं भवति -pnilosophy इति ,यस्य च अर्थः pnilos = Love ',sophia =Wisdom भवति एवञ्च सारांशरूपेणश् वदामः चेत् Love of wisdom" विद्यानुरागः इति |

केचन दार्शनिका : वदन्ति यत् - philosophy इति पदं लैटिन भाषातः Philosophy इति पदद्वयं  स्वीकृत्य आगतम् अस्ति |यस्यार्थ : Phil = principle तत्वम् sophy = science शास्त्रम् इति भवति एवञ्च philosophy इत्यस्य अर्थः तत्वशास्त्रम / तत्वविज्ञानम principles of science इति .

दृश्यते तत्वम् आत्मरूपम् ब्रहरुपं वा तत्वं येन त द् दर्शनम् तचचाऽऽत्मदर्शनब्रह्मदर्शनरूपतत्वदर्शन मध्यात्मदृष्ट्यैव भवितुमर्हति नातोडन्यथा इति| यथोक्तम - आत्मा वाऽरे द्रष्टव्य : श्रोतव्य : मन्तव्यो निदिध्यासितव्यः।

मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्॥

                                          (  बृहदारण्यकोप)

"तस्मादात्माऽक्षरः  शुद्धो बुद्धो नित्यः सर्वगतोव्ययः ।

उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥

                                        (अद्भुतरामा०)   

ऋषयः स्वाऽलौकिकचक्षुभिरवलोकितानां तत्वानां यान् उपदेशग्रन्थान् निर्मिमिरे ,तेषामेव नाम दर्शनम्

दर्शनम् सामाजिकचेतनायाः रूपमस्ति । अत्र  व्यक्तित्वस्य  बोधस्य च साधारण विधीनां विषये,चिन्तनानां व्यक्तिनां च सम्बन्धे संकल्पः सन्ति| इदं दर्शनम् एकप्रकारकं विज्ञानमस्ति, यः प्रकृतेःसमाजस्य च, विचारणीयविधीनाञ्च अध्ययनं

करोति एतदर्थं अस्य मुख्यालय सामाजिकप्रकरणानि विशिष्टैः विज्ञानैः सह तुलना कृत्वा सम्यक् प्रकारेण विचारणीयानि सन्ति।

मनुष्य : स्वभावतो मननशीलः प्राणी विद्यते, मत्या कर्माणि सीव्यतीति तन्निरुक्तिरपि पूर्वोक्तानुकूला, सा हि कोऽहं कस्मादहमित्यादि  समस्याः सततं भावयित्वा " आत्मा वाऽरे दृष्टव्यः श्रोतव्यो मनतव्यो निदिध्यासितव्य :" इति दर्शनबीजमुद्भावितवती । दर्शनस्योदयो वेदकालाद् एव अजायत। दर्शनं द्विविधं आस्तिकं नास्तिकं चेति ।

बौद्धदर्शनम् -  बौद्धदर्शन जैनदर्शनादुत्तरकाले प्रचारितमभवत्। बौद्ध दर्शनस्य भागद्वयं -

1).धार्मिको भागः -धार्मिकभागे अध्यानिकतत्ववर्णनम् आचारनिरूप च प्रपञ्चितं,

2 )दार्शनिको भागः दार्शनिक भागे तु तार्किकदृष्ट्या बौद्ध सिद्धांतस्य सूक्ष्मं विवेचनं प्रस्तुतं।बौद्धानां मते जीवो जगच्चेत्युभयमपि अनित्यं प्रतिक्षणपरिणामशालि च । बौद्धदर्शनस्य प्रस्थानं चतुर्धा विभज्यते -(क) वैभाषिकाः: - बाह्यार्थप्रत्यक्षमङ्गीकुर्वन्ति।

(ख)सौत्रान्तिका: -बाह्याऽर्थमनुमेयमाहु ।

(ग) योगचाराविज्ञानवादिनः।

(घ) माध्यमिका: शून्यवादिना:।

(क) बौद्धदर्शने त्रीणि रत्नानि- शीलं,समाधि, प्रज्ञा चेति।

(ख) बौद्ध दर्शने पञ्च बोधिवृक्षम् - क्षमा- रूपिणी - जटा-धैर्यरूपी - दृढ़मूलम्, चरित्ररूपी -- पुष्पम्, बुद्धिरूपिणी-शाखा, धर्मरूपी - फलम्।

बौद्ध दर्शने पञ्च अविद्या - आलस्य, जन्म - मृत्यु, काम क्रॊध विषादः ।

बौद्ध दर्शने अष्टांगमार्गा : -सम्यकदृष्टि : -संकल्प- वाणी -कर्म - आजीविका उद्योग स्मृति समाधिरिति ।

बौद्ध दर्शने पञ्च शीलत्वम् ;-

१ .जीवहिंसा न करणीया।

२ चोॏरकार्यात् विरक्ति ।

३ व्यभिचारात् विरक्ति ।

४ असत्यभाषणात् विरक्तिः।

५ मध्यपानतः विराक्तिश्चेति।

जैनदर्शनम्(आर्हतदर्शनम्) ;-अर्हत इमे आर्हताः(जैनाः) ।इमे चाऽऽर्हता जैनपदजन्यबोधविषयतावन्तः सन्तः"अर्हत्" पदसम्बॊध्यं तं स्वीयं देवं समुपासते इति । तथा चोक्तम - अर्हन्नित्यथ जैनशासनरताः " ( सर्वद संo जैन प्रकरणे  ) बौद्धदर्शनात् पूर्वतनम् । महावीरेण रागादिरिपवो जिता इत्यासौ जिन् शब्देनोक्तस्तदीयतया दर्शनमिदं जैनदर्शननाम्नाप्यभिहितम्। तीर्थंङ्करेष्वाद्यः ऋषभदेवनामाऽऽसीत्, महावीरश्चान्तिमः। दिगम्बर - श्वेताम्बराख्यसम्प्रदाद्वयस्येदमेव बीजम्। तत्र " हेमचंद्र नामको जैनदार्शनिक आप्तनिश्चयाऽलङकारे आह - सर्वज्ञः जितरागादिः सर्वथा लोकपूजितः ।

यथास्थि तार्थ ता दी च देवोहन परमेश्वरः॥(सर्वदसर्वद॰)  

;-जैनदर्शने नव तत्वानि - जीवः ,अजीवः ,आस्त्रवः ,बन्धः ,संवरः ,निर्ज्जर : ,मोक्षः, पुण्यम्, पापश्चेति ।

;-जैनदर्शने त्रीणिरत्नानि - सम्यक् दर्शनम् सम्यक् ज्ञानम् - सम्यक् चरित्रम् ।

;-जैनदर्शने सदाचारस्य पञ्च नियमाः -- अहिंसा ,सत्यम् ,अस्तेयम् ब्रम्हाचर्यं, अपरिग्रहश्चेति ।

चार्वाक दर्शनं- चारू वाक् इति निर्वचनं चार्वाकशब्दस्य, बृहस्पतिप्रणीतमिदं दर्शनम्।

चारुः (सुन्दरम्)। वाको ( वचनम्) यस्येति यौगिक व्युत्पत्त्या सुन्दरवचनप्रतिपादनपरं दर्शनमित्यर्थो लभ्यते इति।लोकायतदर्शनमप्यस्यास्ति नामान्तरम्,  इदञ्चास्त्यन्वर्थकं नाम्  यतो लोकेषु सर्वत्र आयतम् (विस्तीर्णं)इति च तदर्थः । इदानीन्तनकालावच्छेदेन सर्वोऽपि लोकः चार्वाकमतं सिद्धान्ताञ्चनुसरति ।  प्रमाणदृष्ट्या विचार्यमाणे प्रत्यक्षप्रमाणस्यैव प्रामाण्यं स्वीकरोति लोकोऽपि।  व्यवहारदर्शनेन तु सर्वेऽपि सन्ति प्रायः चार्वाका एव, प्रतीयन्तेऽपि च तथैवेति। येषां पदार्थानां प्रत्यक्षप्रमाणातिरिक्तऽनुमानशब्दादिभिः प्रमाणैः सिद्धिः क्रियते चार्वाकमते सन्ति ते पदार्था मिथ्याभूता  स्वास्तित्वविहीननाश्चेति मन्तव्यम्। 'चार्वाकदर्शने पृथिवी- जल- तेजो -वायवश्चेति सन्ति केवलं चत्वारि द्रव्याणि प्रत्यक्षप्रमाणजन्यज्ञानविषयीभूतानि । प्रत्यक्षमॆव केवलं प्रमाणम् इन्दियार्थसन्निकर्षोत्पन्नं  ज्ञानं हि तत्। शरीरमेव जीवः, सृष्टिः स्वभावतः एषः जायते। न तत्रेश्र्वरापेक्षा। ईश्वरो नास्त्येव पतञ्जलिसमये अस्मिन् दर्शने ग्रन्थः प्राप्यन्ते सम्यक्, सम्प्रति नोपलभ्यन्ते। सम्प्रति तु दर्शनग्रन्थेषु यत्र तत्र उद्धरणमात्रं पूर्वपक्षरूपेण दृश्यते यथा-यावज्जीवेत्सुखं जीवेदृणं कृत्वा घृतं पिबेत्।

       भस्मीभूतस्य देहस्य पुनरागमनं कुतः॥

       त्रयो वेदस्य कर्तारो भाण्डधूर्तनिशाचराः।

अस्य दर्शनस्य शाखात्रयं विद्यते यथा- १ भौतिकजगतः प्रकृतिवादः,

२. यान्त्रिक प्रकृतिवादः,

३. जैविक प्रकृतिवादः, इति।

स्वाति।