वैयक्तिकानुदेशनम् ( INDIVIDUAL INSTRUCTION )

त्रिचतुरेभ्यः दशकेभ्यः अनुदेशनप्रक्रियां समुन्नतां कर्तुं बहवः प्रयासाः शिक्षाविधिः विहिताः वर्तन्ते । परिणामतः नैकाः वैय्यक्तिकशिक्षणयोजनाः पद्धतयः च शिक्षाजगति समुत्पन्नाः । एतासु पद्धतिषु काश्चन पाश्चात्यदेशेषु व्यापकरूपेण अपि प्रयुक्ताः । अद्यापि ताः शिक्षणपद्धतयः प्रवर्तमानाः अवलोक्यन्ते । तासु वैय्यक्तिकानुदेशनप्रणाली अन्यतमा । वैय्यक्तिकरूपेण अनुदेशनं शिक्षणं वा प्रदातुं विकसितदेशेषु उच्चशिक्षाप्राप्त्यर्थं सफलतया इयं प्रणाली सम्प्रयुक्ता । अधुना विकसशीलदेशेषु अपि शिक्षणाधिगमसमस्याः समाधातुं वैयक्तिकानुदेशनपद्धत्याः प्रयोगः क्रियमाणः अस्ति । यद्यपि आधुनिके कालेऽस्मिन् सामूहिकशिक्षणस्य अधिक महत्त्वं दीयमानं वति , तथापि वैय्यक्तिकशिक्षणस्य एक स्वतन्त्र महत्त्वं विद्यते इत्येत् उपेक्षितुं तु न शवयते ।

वैयक्तिकानुदेशनस्य अर्थः ( Meaning of Individual Instruction ) वैयक्तिकानुदेशनप्रणाली ( Personal System of Instruction , { PSI } ) तादृशी काचित् पद्धतिः , यत्र अधिगमकर्तुः रुचेः , योग्यतायाः , आवश्यकतायाश्च अनुरूपम् अनुदेशनं निर्मातुं प्रयत्नः क्रियते । प्रत्येकं छात्रस्य आवश्यकतानुगुणम् अध्यापकः पृथक्तया तम् अध्यापयति । कक्षाशिक्षणस्य विपरीतमेतत् वैयक्तिकानुदेशनम् ।

वैयक्तिकानुदेशनस्य प्रक्रिया ( ( Process of individual instruction )

वैयक्तिकानुदेशनप्रणाल्यां पाठ्यक्रमयोजनायाः अभिविन्यासः लिखितसामग्रीमाध्यमेन छात्रेभ्यः प्रदीयते । छात्राः अध्ययनसन्दर्शिकाप्राप्तेः अनन्तरं प्रथमांशम् अध्येतुं प्रारभन्ते । अध्ययनसन्दर्शिका पाठ्याशं प्रस्तावयति , अधिगमोद्देश्यानि च वर्णयति । एतत् आशिकाध्ययनप्रश्नान् अपि पृच्छति । प्रश्नानाम् उत्तरं निर्धारयितुं केचन कार्यविधयः प्रदीयन्ते । छात्राः स्वकार्य गृहे , ग्रन्थालये , नियमितकक्षाकालाशेषु च सम्पादयन्ति तेषा कार्येषु मुख्यतः वाचन , प्रश्नानामुत्तरदानं च समाविष्टं भवति । यदि छात्रस्य किमपि कष्टमापतति , तदा सः स्वसहाध्यायिभिः छात्रैः सह अनुदेशकैः सह वा परामर्श कर्तुं शक्नोति । छात्रः अगुकर्तृणां निर्देशं स्पष्टीकृत्य स्वाथ्ययनार्थं काश्चन विशिष्ट परामर्शान् प्रयच्छति । यदा कश्चन छात्रः पाठ्यसामग्याः पर्याप्तज्ञान प्राप्तवान् इति अनुभवति , तदा सः छात्रः आशिकपरीक्षणार्थम् अनुकरं प्रार्थयति । आशिकपरीक्षायाः समाप्त्यनन्तरं छात्रः तत्परीक्षितुम् अनुकर्तुः समीपं गच्छति । अनुकर्ता तस्य परीक्षणस्य अङ्कलां कृत्वा , कस्यचित् उत्तरस्य स्पष्टीकरणार्थं तं निर्देष्ट्रमर्हति , छात्रस्योत्तरं समीचीनम् असमीचीनं वा भवतु । यदि छात्रस्य निष्पत्तिः अभीष्टस्तरापेक्षया न्यूना भवति , तदा पुनः सः छात्रः तस्यआंशिकविषयवस्तुनः पुनरावृत्त्यर्थं निर्दिश्यते । ततः परमेव आंशिकपरीक्षार्थं सः अनुमन्यते । एवञ्च छात्रा : अंशानामध्ययनं स्वगत्यनुसारं कुर्वन्ति । सप्ताहे प्रायः द्वयोः अंशयोः पूर्तिः क्रियते । अंशानां सत्रसमाप्तेः अनन्तरं छात्राः अन्तिमपरीक्षया पाठ्यक्रगस्य श्रेणी प्राप्नुवन्ति । एषा श्रेणी तेषाम् अन्तिमपरीक्षायाः परिणामेन पूरितानाम् आंशिकपरीक्षणानां संख्यामेव आश्रयते ।