अधिगम स्थानान्तरण

अर्थः- सी जी बी क्रिया अथवा विषयस्य अन्यासु परिस्थितिषु उपयोगः। कॉलसनिक- शिक्षायाः स्थानान्तरणेव आशयः एकस्यां परिस्थितौ प्राप्तज्ञान, प्रवृत्तिः, निपुणता, अभियोग्यतायाः अपरस्याम् परिस्थितौ प्रयोगः। प्रो. सोरेन्मन- स्थानान्तरणमेकस्यां परिस्थितौ अर्जितं ज्ञानम्, प्रशिक्षणं तथा च प्रवृत्तिः अन्यासु परिस्थिषु स्थानान्तरणस्य चर्चां करोति। अधिगम स्थानान्तरणस्य अर्थं निम्नप्रकारेण स्पष्टं कर्तुं शक्यते- (ⅰ)स्थायी पाठः (Permanent learning) (ⅱ)स्थितेः चयनम् (Selection of Position)

                     (ⅲ) प्रभावः                   (Effect)

अधिगम स्थानान्तरणस्य प्रकाराः (Types of Transfer----) अधिगम स्थानान्तरणस्य प्रकाराः एवं सन्ति- (1)सकारात्मकं स्थानान्तरणम्- यदा एकस्य विषयस्य अधिगमः अन्यस्य विषयस्य अधिगमे सहायकः सिद्धः भवति तदा सकारात्मकस्थानान्तरणं कथ्यते। उदाहरणम्- यः व्यक्तिः आङ्गलउट्टङ्कनयन्त्रे उट्टङ्कनमवबोधते सः हिन्दी- उट्टङ्कन्यन्त्रे उट्टङ्कनं सरलतया अवगच्छति। अर्थात् उट्टङ्कनं हिन्दी ट्टङ्कन अधिगम हेतु सहायकः सिद्धः भवति। (2.) नकारात्मकं स्थानान्तरणम्- यदा एकस्य विषयस्य अथवा कौशलस्य अधिगमः अन्यस्य विषय अथवा कौशलस्य अधिगमे बाधकः भवति तदा नकारात्मकं स्थानान्तरणमिति कथ्यते। नकारात्मक-स्थानान्तरणस्य प्रकृतिः निम्नप्रकारेण द्विधा भवति।– (अ) पूर्वलक्षी नकारात्मकं स्थानान्तरणम्- यदा प्रथमप्रकारेण पठितः कश्चन् विषयः द्वितीयप्रकारेण पठितः विषयेन दुष्टः प्रभावितः भवेत् अथवा वदेत् तदा एतां स्थितिं पूर्वलक्षी नकारात्मकं स्थानान्तरणं वदन्ति। उदाहरणम्- द्वितीयां कवितां स्मरणानन्तरं प्रथमा कविता विश्मृतप्रायः भवेत् अथवा सम्यक् स्मरणं न भवेत्।। (ब)प्रतिलक्षी नकारात्मक-स्थानान्तरणम्- यदा प्रथम प्रकारेण ज्ञातं किंचित् वस्तु द्वितीयप्रकारेण ज्ञायमानः किञ्चित् वस्तोः उपरि दुष्प्रभावं करोति अथवा बाधामुत्पादयति एषा स्थितिः प्रतिलक्षी नका.स्थाना. कथ्यते। उदाहरणम्- प्रथमायाः कवितायाः स्मराणानन्तरं यदि द्वितीयाः कवितायाः स्मरणे बाधा भवति अथवा प्रथकवितायाः पंक्तिः स्मरणे आयाति। एतद् अर्थः जानीमः हिन्दी साहित्यात् महत्वपूर्णाः प्रश्नाः। (3.) क्षैतिजीय स्थानान्तरणम्- एतद् सकारात्मकं नकारात्मकमुभयमऽपि भवति। यदा अन्यप्रकारस्य योग्यता अथवा ज्ञान अन्यषु योग्यता अथवा ज्ञाने सहायकः भवति इति क्षैतिजीय स्थानान्तरणं भवति। उदाहरण- कक्ष्या 10 एकस्य छात्रस्य गणितसम्बन्धी ज्ञानस्य भौतिकविज्ञानस्य अध्ययने सहायक भवनम्(सकारात्मक क्षैतिजीय स्थानान्तरणम्) एतस्मात् विपरीतं यदा एकः विषयः अथवा कौशलः अन्यविषयस्य अथवा कौशलस्य ज्ञाने अवरोधमुत्पादयति तदा एतं नकारात्मक क्षैतिजीय स्थानान्तरमुच्यते। उदा.- १० कक्ष्यायाः एकः विद्यार्थी गणिते ज्ञानमर्जयति तथा च एतत् ज्ञानं साहित्यस्य ज्ञानार्जने बाधां उत्पादयेत्। (4.) अनुलम्बीय स्थानान्तरणम्- एतदपि सकारात्मकं नकारात्मकं च भवति। यदा एकस्यां स्थितौ अर्जितं ज्ञानमथवा कौशलः। अन्यसम्बन्धीज्ञान अथवा कौशलस्य अर्जने अग्रे सहायकः भवति तदा इमां स्थितिं अनुलम्बीय सका.स्थाना. वदन्ति। उदा.- एकेन छात्रेण ८कक्ष्यायां गणिते अर्जितं ज्ञानं १० कक्ष्यायां गणितस्य सहायकः सिद्धः भवति। एतस्मात् विपरीतं यदा एकस्याः एव परिस्थित्याः सम्बन्धितं ज्ञानमेव कौशलः अग्रे गत्वा तस्याः एव परिस्थित्याः सम्बन्धितं ज्ञान एव कौशलस्य अर्जने बाधामुत्पदायेत् तदा इदं स्थानान्तरणमनुलम्बीय नकारात्मक स्थानान्तरमं कथ्यते।

उदा.- अष्टम्याः कक्षायाः एकस्य छात्रस्य साहित्यज्ञानमग्रिमकक्षायाः साहित्यज्ञाने अवरोधमुत्पादयेत्।

(5.)पार्श्विक स्थानान्तरणम्- यदा शरीरस्य एकेन अङ्गेन अर्जिता कार्यकुशलता तस्यैव अङ्गस्य द्वितीयसम्बन्धीकार्यकुशलतां अग्रे प्रभावितं करोति तदा सा पार्श्विक वा एकपक्षीयस्थानान्तरमिति उच्यते। उदा.- दक्षिण हस्तेन, हिंद्याः लेखन कुशलतायाः संस्कृतलेखन कुशलतां प्रभावितं करोति। (6)द्वि-पार्श्विक स्थानान्तरम्- यदा शरिरस्य एकस्य अङ्गेन अर्जित कार्यकुशलता द्वितीयअङ्गस्य कार्यकुशलतां प्रभवति तदा इदं द्वि-पार्श्विक स्थानान्तरणमुच्यते। उदा.- एकः व्यक्तिः दक्षिणहस्तेन प्रहराति किन्तु यदि आवश्यकतावशात् सः बामहस्तेन अपि प्रहरितुं शक्नोति यतोऽहि सः तेन बामहस्तेन अपि प्रहरितुं शक्नोति, यतोऽहि सः तेन बामहस्तेन प्रहरितुमभ्यासः नैव कृतः। अस्यां परिस्थितौ वयं पश्यामः यत् दक्षिणहस्तस्य कौशलः बामहस्ते स्थानान्तरितः जातः। अधिगम स्थानान्तरण्स्य सिद्धान्ताः (Principle of--------) (7) स्थानान्तरणस्य प्राचीने सिद्धान्ते मानसिक शाक्तिक्वा सिद्धान्ताः औपचारिक मानसिक परिक्षणस्य च सिद्धान्तः सम्बन्धितोऽस्ति। येषु निम्नमानसिक शक्तयः सन्ति। अवधानम्, स्मृतीः, कल्पना, तर्कः, इच्छा, स्वभावः यदा कदापि चरित्रं एवं अन्यगुणाः। एतदपि जानीमः Teaching) Aptitude----- (2.)स्थानान्तरणस्य आधुनिकः सिद्धान्तः। (ⅰ)थार्नडाइक महादयस्य सिद्धान्तः। समरुप तत्त्वानां सिद्धान्तः। थारनडाइकेन ज्ञानस्य प्रयोगे प्राप्तं यत् यदा व्यक्तिः संकलित अनुभवेषु नवीन ज्ञानाय समूह तत्त्वान् भिन्नं करोति तथा च तेषां प्रयोगंकृत्वा शीघ्रं जानाति। इदं समरुप तत्त्वानां सिद्धान्तः कथ्यते। (ⅱ)C.H. JUDO महोदयस्य सिद्धान्तः। समान्यीकरणस्य सिद्धान्तः। भवता ज्ञआने स्थानान्तरणस्य प्रयोगाः कृताः तथा नवीनसिद्धान्ताः प्रतिपादिताः एनं सामान्यकरणस्य सिद्धान्त वदन्ति। स्व विकासेन सार्धं विभिन्नाः अनुभवाः अर्जन्ति। एते अनुभवाः मिलित्वा निष्कर्षं निष्काष्यन्ति यं सिद्धान्तः वदन्ति भविष्ये बालकाः एतेषां सिद्धान्तानां प्रयोगं जीवनस्य समस्यानिराकरणे करोति। (ⅲ)बाग्लो महोदयस्य सिद्धान्तः। आदर्शस्य एवं मूल्यानां सिद्धान्तः। अवबोधने स्थानान्तरणं बहु महत्त्वपूर्णं मन्यन्ते। सामान्यीकरण एवं समानतत्त्वानां पृष्टे आदर्शाः एवं मुल्यानि मन्यन्ते। येषु बालकस्य विकासेन साकं तेषां मूल्यानां अपि निर्माणं भवति। सकारात्मक-अधिगम-स्थानान्तरणस्य शिक्षणम् जिज्ञासोः सिद्धता। उपयुक्त विधिनां प्रयोगः। सामान्यीकरणस्य प्रशीक्षणम्। विषयस्य पूर्व ज्ञानम्। समानतत्त्वानां चयनम्। स्थानान्तरणस्य अभ्यासः।