प्रभातवर्णनम्।

दिवसस्य प्रथमावस्था एव प्रभातम्। प्रभाते सूर्यः उदेति। सूर्यस्य प्रकाशः प्रसरति। शीतलःमन्दः वायुः प्रवहति। उद्याने पुष्पाणि विकसन्ति। तेषु भ्रमराः गुञ्जन्ति। खगाः गीतं गायन्ति। मयूराः नृत्यन्ति। मृगाः धावन्ति। गोपालकाः दुग्धं आनयन्ति। कृषकाः क्षेत्रं प्रति गच्छन्ति। जनाः प्रभाते सूर्योदयात् पूर्वं शय्यां त्यजन्ति। ते ईश्वरं नमन्ति। देवालयेषु घण्टाध्वनिः श्रूयते। जनाः स्नात्वा देवालयं गच्छन्ति। ईश्वरं प्रणमन्ति। केचित् जनाः प्रातः काले भ्रमणाय गच्छन्ति। केचित् समाचार पत्रम् पठन्ति। केचित् दूरदर्शने महापुरुषाणां व्याख्यानं श्रृण्वन्ति। छात्राः विद्यालयं गच्छन्ति। सर्वे जनाः आलस्यं परित्यज्य स्वकार्ये संलग्नाः भवन्ति। । प्रथमे निर्जिता विद्या अन्तिमे किं करिष्यति।। इव अवश्यमस्याः प्रभातवेलायाः सदुपयोगः करणीयः।।