शिक्षासमाजशास्त्रं उद्भवः विकासश्च समाजः :- समाजः इति पदस्य किं तात्पर्यम् इत्युक्ते मानवानां समूहः समाजः इति उच्यते । सम् उपसर्गपूर्वक अज् धातुः घञ् प्रत्ययेन समाजः शब्दः निष्पद्यते(सम्+अज्+घञ्) । तत्र मधुरा , शुद्धाः, विचारबिनिमयकारी भाषाः , विनयः आचारः, धर्मः, शालिनता इत्यादयः गुणयुक्तजनाः निवसन्ति । सः समूहः समाजः इति कथ्यते ।

                 अतएव भारतीय महान् दार्शनिकः डा.राधाकृष्णन् महोदयैः उक्तं – “चिन्तनशिलमस्तिष्कान् पुष्पितुं, फलितुं च कलाविज्ञानयोः समृद्ध्यै च प्राथमिकदशाः इयमावश्यकी वर्तते यत् संघर्षरहितः कश्चन समाजः यः समाजः सुरक्षावकाशं च प्रदातुं शक्नुयात्” इति । अर्थात् कश्चन समाजः तदा उन्नतिं 

करोति यदा तत्रत्यजनाः कलाविज्ञानयोः उन्नत्यैः तथा स्वकीय ज्ञानवर्धन कर्तृं शक्यते ।

             पुनश्च केचन शिक्षाशास्रीणाम् मतानुसारं योग्यसमाजेन एव  योग्यशिक्षा व्यवस्था प्रवर्तते ।

समाजशास्त्रस्य अर्थः :-

     समाजशास्त्रं नाम समाजविज्ञानं इति । समाजस्य स्थितेः वैज्ञानिक परिशीलनमेव समाजशास्त्रम् । समाजस्य अध्ययनं भवति समाजशास्त्रम् ।

समाजशास्त्रस्य परिभाषा :-

        वहवः दार्शनिकाः समाजशास्त्रोपरि स्वमतामतं प्रददति । यथा – आङ्गंस्ट काम्टे महोदयस्य मतानुसारेण – सामाजिक व्यवस्थायाः सामाजिक प्रगतेश्च विज्ञानं समाजशास्त्रम् इति कथ्यते ।
इमाईल दुखिम् महोदयस्य मतानुसारेण – समाजशास्त्रं सामूहिक प्रतिनिधित्वस्य  ज्ञानं अस्ति ।

मुर् एवं कोल् महोदययोः मतानुसारेण – समाजविज्ञानं समाजस्य वहुमुखी व्यवहाराणां अध्ययनं करोति । शिक्षासमाजाशास्त्रं :-

           मानवः एक सामाजिकप्राणी भवति । अतः तस्य सानाजिकीकरणं आवश्यकं भवति । सामाजीकिकरणेन एव सः पाशविकप्रवृत्तिं परित्यज्य मानवीयप्रवृत्तिं प्राप्नोति । समाजस्य आर्थिक – राजनैतिक – सांस्कृतिक – धार्मिकपक्षा श्च शिक्षाप्रभावयन्ति । एतेन स्पष्टं ज्ञायते यत् – शिक्षासमाजयोः घनिष्ठः सम्बन्धः अस्ति । सः सम्बन्धः शैक्षिकसमाजशास्त्रं इति भवति ।
                    शैक्षिकसमाजशास्त्रे सामाजिक आधाराणां विश्लेषणं , शिक्षासमाजशास्त्रयोः सम्बन्धादि विषये चर्चा भवति ।

शिक्षासमाजशास्त्रस्य अर्थः :-

      समाजशास्त्रस्य विविधाः शाखाः सन्ति । तासु प्रमुखाः भवन्ति शिक्षासमाजशास्त्रम् । एतद् शास्त्रं शैक्षिकक्रियाभिः व्यक्तिसमाजयोर्मध्ये जायमानानां समस्यानां शिक्षासमाजशास्त्रं सिधान्तानुसारं समाधानं करोति । एतस्य शास्त्रस्य आधुनिककाले वहु विकासः भवति ।
            जार्ज पेने महोदयः शैक्षिकसमाजशास्त्रस्य जनकः अस्ति । सः १९२८ तमे वर्षे शैक्षिकसमाजशास्त्रं सिद्धान्त इति पुस्तकं रचितवान् । यत्र सामाजिकवातावरणे छात्राणां सर्वांङ्गीणविकासाय ब्यक्तित्वस्यविकासाय च सम्यक् विचारः प्रतिपादितः अस्ति ।

शिक्षासमाजशास्त्रस्य परिभाषा :-

     व्राउन् महोदयानाम् मताणुसारेण – शिक्षासमाजशास्त्रं नाम व्यक्ति तथा समाजयोर्मध्ये जायमानं अध्ययनम् ।

रासेक महोदयानाम् मतानुसारेण – शिक्षायाः मौलिकसमस्यानां समाधानं यदा सामाजिकविज्ञानसहायेन क्रियते तदा शैक्षिकसमाजशास्त्रं भवति ।

शिक्षासमाजशास्त्रस्य उद्भवः विकासश्च :-
    आदिकालात् आरभ्य इदानीं पर्यन्तं मानवसमाजः समेधते । अतः सर्वत्र समाजस्थितिगतिविषयिणी चर्चा आदिकालादेव प्रवर्तते । पुराकाले ब्रह्मचारिणः गुरुगृहेषु अन्तेवासीरूपेण अधीयमानाः सन्तः समाजेन सह घनिष्ठः सम्बन्धं संस्थाप्य भिक्षाटनेन जीवनं अतिवाह्यन्ति स्म ।
                   यदि मानवाः पशुवत् असंस्कृताचारान् कुर्वते तदा तत्र मनीषिणः तां उपदिदिशुः । वेदेषु विघटिताचारान् मार्गकर्तुं वेदानामुपदेशाः अत्र प्रमाणभूताः सन्ति , यथा –
         “ सगच्छध्वं संवदध्वं सं वो मनांसिजानताम् । देवाभागं यथापूर्वे संजानानाम् उपासते “ ।
   आधुनिककाले शिक्षासमाजशास्त्रस्य जनकः जार्ज पेनि मन्यते । सः १९२८ तमे वर्षे “शैक्षिकसमाजशास्त्रं” इति पुस्तकं रचितवान् । पुस्तके अस्मिन् शिक्षासमाजयोर्मध्ये परस्परं सम्बन्धस्य विश्लेषणं विद्यते । शिक्षायाः उपरि समाजस्य प्रभावः अत्र विवेचितः ।
  पेनी महोदयस्य विचारमेव जर्ण डीवी, पीयर्स, कुक्, डेविस्,ओटावे प्रभृतयः समपोषयन् ।

सामाजिकपरिवर्तने नियन्त्रणे च शिक्षायाः महत्वपूर्णभूमिका शिक्षासमाजशास्त्रेभ्यः ज्ञातुं शक्यते ।