अभिक्रमिताधिगमस्य प्रकाराः (रेखीयाभिक्रमः, शाखीयाभिक्रमः च )
["अभिक्रमिताधिगमः "]
सर्बप्रथमम् प्रश्नः आयाति यत् किम् नाम अभिक्रमिताधिगमः इति छात्राणाम् पुरतः पाठ्यव- स्तुनि लघुलघु भागेषु विभिज्य क्रमवद्ध सोपान रूपेण उपस्थापनम् नाम अभिक्रमिताधिगमः। शिक्षणाधिगमप्रक्रिययाः विकासार्थम् अभिक्रमिताधिगमः आविष्कृतः। शिक्षणसूत्राणाम् साहाय्येन अस्य निर्माणम् भवति। आत्माधिगमनाय आत्मानुदेशनाय च समुचिताभिक्रमिताधिगमः शिक्षाक्षेत्रे कश्चन नूतन संस्कारः । शिक्षार्थीनाम् तथा शिक्षकाणाम् अपि व्यवहारस्य शिक्षण दक्षतायाः च विकासार्थम् अभिक्रमिताधिगमस्य आवश्यकता वर्त्तते । उपनिषत्सु , श्रीमद्भगवद्गीतायाम् , महाभाष्ये , कठोपनिषदे च अभिक्रमिताधिगमः परिलक्ष्यते।
स्मिथ् महोदयानुसारम् कानिचित् विषयम् क्रमवद्ध सोपानैः समायोज्य शिक्षणम् माध्यमेन ज्ञातात् अज्ञातम् प्रति अभिक्रमिताधिगमः भवति।
*" अभिक्रमिताधिगमस्य प्रकाराः "*
(1) रेखीयाभिक्रमः अथवा वाह्याभिक्रमः (2)शाखीयाभिक्रमः अथवा आन्तरिकाभिक्रमः (3) शृङ्खलायाभिक्रमः (4) संगणिताधारिताभिक्रमः (5) शिक्षार्थीनियन्त्रिताभिक्रमः
(1) रेखीयाभिक्रमः
अस्याभिक्रमस्य प्रवर्त्तकः स्किनरेव वर्त्तते। रेखीयाभिक्रमस्य अधिगमः कश्चित् सामग्री वर्त्तते। यत् प्रत्येकं छात्रः रेखीय क्रमेण निश्चित सोपान माध्यमेन उत्तीर्णप्राप्य अग्रेसराः भवति, अस्मिन् अभिक्रमाः निर्मीयन्ते ते एकस्मिन् सरल रेखीय अभिक्रमानुसारेण प्रस्तूयन्ते। प्रत्येकं रुपाधारात् एकः नूतनः रुपाधारः निर्गच्छति । अस्मिन् शिक्षार्थीनां पुरतः शिक्षण सामग्रयः एकः लघु अंशः रुपाधारत्वेन सोपान रूपेण प्रस्तूयते अनन्तरं शीक्षार्थीना तत्सम्बन्धी प्रश्नस्य उत्तर दातुं निर्दिश्यन्ते। शिक्षार्थीनाम् उत्तरप्राप्तेः अनन्तरं तस्मै साधुमुत्तरमपि प्रदर्श्यते । तेन छात्राः पुनर्बलनं प्राप्नोति , एबम् च एकस्य रुपाधारस्य अनन्तरं प्रश्नः प्रश्नोत्तरस्यानन्तरं पुनर्बलनं पुनर्बलनस्यानन्तरं पुनः द्वितीयारुपाधारे प्रवेशः एवंरीत्या शिक्षार्थीव बालकः आरम्भ व्यवहारात् अन्तिम व्यवहारं प्रति गच्छति। उद्दीपक , अनुक्रिया ,पुनर्बलन, त्रयाः प्रमुखाः भवन्ति रेखीयाभिक्रमेति।
(2) * " शाखीयाभिक्रमः "*
श्री नार्मल्. ए. क्राउडर (प्रतिपादकः ) सर्वप्रथमं 1954 तमे वर्षे आमेरिकादेशस्य नार्मल्. ए. क्राउडर महोदयः शाखीयाभिक्रमस्य आविष्कारः कृतवान् । एषः अपि विषय सामग्रीः प्रस्तुतिकरणस्य एका नूतना प्रविधि वर्त्तते। अत्र समस्ताः अपि अनुक्रियाः छात्राणाम् द्वारा एव नियन्त्रितम् भवन्ति । अत्र एव अयं अभिक्रमः आन्तरिकाभिक्रमः वर्तन्ते । अत्र शिक्षार्थीनाम् न्यूनता काठिन्यं अवधाय विभिन्न रुपाधाराः प्रदत्ताः भवन्ति । एतेषु रुपाधारेषु विषय सामग्रयाः अंशाः अधिका वर्तते । एकस्य रूपाधारस्याध्ययनान्तरं शिक्षार्थेभ्यः वहुविकल्पीयप्रश्नाः प्रच्छन्ते। एकस्य प्रश्नस्य त्रिचतुर्थेषु उत्तरेषु एकमेव साधु उत्तरं निहितं भवति। साधु उत्तरस्य प्राप्तौ छात्रः अग्रिम रूपाधारस्य दिशि अग्रसरः भवति इति शाखीयाभिक्रमः ।
**** * समाप्तं *****