महा कविर्माघः तत्काव्यं शिशुपालवद्धञ्च
अस्मिन्नतिविचित्रकविपरम्परावा हिनिसंसारे यावन्तो महाकवयः भरतलिलिंगत्णभुतं भारतदेशं स्वपावनपावनैः कृतैः नितरां समलञ्चक्रुः तेषु निखिलकविमौलिमालालालितचरणकमलस्य माघकवेः स्थानं स्वतन्त्रम् इति निश्चयेन वक्तुं पार्यते । " माघे सन्ति त्रैः गुणाः " इति कथनेन माघस्य कालिदास ,भारवी,दण्डी प्रभृतिनाम् एकायतनीभूतं स्वरूपं आख्यायते । कालिदास प्रणीतं रघुवंश, कुमारसम्भवम्, बेणिसंहार काव्यत्रयं लघुत्रयिति प्रतिथं तथा किरा तार्जुनियम् ,शिशुपालबद्ध ,नैषधीयचारितकाव्यत्रयं वहुत्रयिति प्रथितं । एषु त्रिषु बृहत्काव्येषु महाकविना माघेन प्रणितं संस्कृतमौलिमालायमानं शिशुपालवधं सर्वातिशायि ।अस्मिन् काव्ये कालिदासस्य रस चमत्काः, अश्वघोषस्य स्वभीष्टदर्शनसिद्धी, भारवेर्थगौरवं,भट्टि,कवेः व्याकरण प्रयोगपरता च सर्व एव परस्परं समन्विताः सन्ति । जगदुत्पतिस्थिति विनाशदक्षस्य कृष्णस्य उदाचरितमादाय विशति सर्गेषु निवद्धं इदं महाकावे प्रौढ़कल्पनाया अपुर्वम मुदाहरत्णम् ।
अयं कविः किं दशिकः किं कालिकश्चेति अपेक्षायां गुर्जरान्तर्गतमावप्रदेशवास्तव्य आसीत् । कतिपया ऐतिहासिका अयं गुर्जरप्रान्तर्गतलुनीनद्याः निकटे वर्तमानीरवः भिमनाल इति नामक ग्रामे जननं लभे इति मतं पोषयन्ति । एतस्य पिता दत्तकाभिधानः । पितामहः सुप्रभदेवः । अस्य समयः विक्रमाष्टशतकपूर्वार्द्धमिति अनुमियते । अतः काश्मिरेषु नवमशकोत्तरभागे वर्त्तमानः श्रीमदानन्दवर्द्धनाचार्यः ध्वन्यालोकस्य द्वितीये उद्दोते "त्रसाकुलः परिपतन् परितोनिकेतान"(५/२३)इति
पद्यमुद्धरति तथैव वामनश्चतुल्यगितालंकारप्रसंगे " रम्या इति प्राप्तवती पताका" (३/५३) पद्यमुद्धरति। तेननासौ तस्मादपि पूर्ववत्तर्येव। अपञ्च अयं कविः स्व काव्यस्य शिशुपालवद्धस्य समाप्तौ कविवंशवर्ण न प्रसंगे सऩमुपस्थापितोतोस्ति। यथोक्तं
तत्र-
सर्वाधिकारी सुकृतोधिकारः श्री वर्मलातस्य वभुव राज्ञः ।
असक्तदृष्टिर्विरजा सदैव देवोपरः सु प्रभदेव नामा ॥
तस्याभवद् दत्तक इत्युदात्त क्षमी मृदुधर्मपरस्तनुजः ।