अनुशासनम्-सम्रतय सिद्धान्तश्च                          


   मनुष्यः जीवने अनुशासनस्य महत्वपूर्णं आवश्यकता वर्तते।अनुशासनस्य अर्थ सर्वदा निर्धारितः नियमानुसारेण कार्यं सम्पादितं इति भवति। एकः उचिताधिकारिणां आदेशानुपालनं अनुशासनम्। अनुशासनम् जीवनस्य प्रत्येकं क्ष्येत्रे आवश्यकः भवति। अनुशासनम् प्रथमतः गृहपरिबारात् आरम्भः भवति। परिवारस्य वयज्योष्ठ व्यक्तिनां आधारेण अनुशासनस्य पालनं भवति।यदि परिवारे अनुशासनस्य व्यवस्था न भवति गृहे शान्तिः सुव्यवस्थपि न भवति। विद्यालये छात्राणां निमित्तं अनुशासनस्य व्यवस्था अपि भवति। बालकस्य सर्वाङ्गीण विकासाय अनुशासनम् अत्यावश्यकं वर्तते। प्राचीन शिक्षा व्यवस्थायां अनुशासनस्य महत्वं एतावत् आसीत्। यत् शिक्षा च जगति साधनापेखया साध्यरूपेण अपि परिगण्यते स्म।

अनुशासनस्य अर्थः

‘ अनु ' उपसर्गः पूर्वकः शास्' धातोः ल्युटि अनुशासनम् इति पदं सिध्यति। शासनं विधिनियमो वा इति शासनं शब्दस्यार्थ। आङ्ग्लभाषायामनुशासनस्य कृते ‘डिसिप्लिनि' इति शब्दः उपयुज्यते। डिसिप्लिनि शब्दस्य उत्पत्तिः लौटिनभाषायां ‘डिसिप्लिना’इति भवति। यस्य अर्थः व्यवस्था, नियमः, अभ्यासः, अध्ययनं च।‘ डिसिप्लिन’ शब्दस्य कृते अनुशासनम् इति शब्दस्य प्रयोगः भवति। इन्द्रियाणां मनोबुद्धयादीनां परिष्कारेण सह आत्मनः विकासः भवति। अनुशासनस्य पृष्ठभूमेः अवलोकनेन जानाति प्राचीन काले अनुशासनस्य तात्पर्यम् भवति विद्यार्थी कक्षायां शान्तिः भावेन तिष्ठादिति। अध्यापकस्य आदेशानुपालनं छात्राणां मुख्यं कार्यम् भवति। पठनात् अनन्तरं गुरूणां उपदिशति सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमदः, पितुः मातुः आदेशानुपालनं इति भवति।


अनुशासनस्य परिभाषा

टी.पी नन् महोदयानुसारेण -

स्व भावनायां शक्तिं च नियन्त्रणाधीन कृतम्, यः अव्यवस्था भवति तद् व्यवस्था प्रदानं कृतम्।

एच. मारटिन महोदयानुसारेण- अनुशासनस्य अर्थः व्यवहारस्य किञ्चित् नियमस्य पालनं ग्रहणं च। अनुशासनस्य अनिवार्य गुण आज्ञाकारिता अर्थात् नियमो अधिकारिणां च प्रति आज्ञाकारिता वर्तते।

अनुशासनस्य प्रकाराः-

अनुशासनस्य अधोलिखित प्रकाराः सन्ति।

• प्राकृतिकम् अनुशासनम्

• अधिकारिकम् अनुशासनम्

• सामाजिक अनुशासनम्

• आत्मानुशासनम्

प्राकृतिक अनुशासनम्

   प्रकृतिवाद दर्शनिकः रूसो, तथा हर्वट, स्पेनसर् इत्यस्य दर्सनिकौ प्रकृतिकानुसासनश्य समर्थकौ स्त। तयोविचारः त्वय मस्ति यत् प्रकृतिः स्वयमेव प्रथमा  शिक्षकाः भवति। बालकानां कृते प्रकृतिः प्रथमा शिक्षकः भवति। यत् वालकः प्रकृत्या जीवति, अतः सः प्रकृत्या सह सम्बद्धम् स्थापयित्वा अनुशासितः भवति। यदि बालकाः प्राकृतिक नियमानुसारं कार्यं करोति तर्हि जीवने सफलता प्राप्नोति, अन्यथा विफलता प्राप्नोति । यदि प्रकृतेः विरूद्धं किमपि कार्यं करोति तर्हि सः प्रकृत्या अनुशासिताः भवति।

उदाहरणम्- यदि एकः वालःअग्निः स्पृशति तर्हि अग्निना सः दग्धिभूतो भवति।

अधिकारिकम् अनुशासनम्

  अधिकारिकमनुशासनस्य तात्पर्यम् अस्ति यत् वालकः ज्येष्ठजनानामनुसारेण कार्यं करोति सः स्वेच्छानुसारेण कार्यं कर्तुं न शक्नोति। परिवारेषु सः स्वाग्रजानां भगिनीनां, वयज्योष्ठ व्यक्तिनां पितुः मातुः अनुसारेण च व्यवहरेत् । विद्यालये अपि सः शिक्षकानुसारं कार्यं कुर्वन्ति। गृहस्य जीवने  पत्युः पत्न्याः वा वृत्तिसर्गतायनेषु उच्चाधिकारिणाम् अनुशासनम् पालयति।

सामाजिकानुशासनम्

बालकस्य जन्म परिवारेण भवति। सः यथा यथा वर्धते तथा तथैव तस्मिन् सामाजिक गुणानां विकासोऽपि भवति। येषां कार्याणां कारणेन सः निन्दिता न भविष्यति। अतो न तादृशं कार्यं करोति येन निन्दितः स्यात्। मनुष्यः एकः सामाजिकप्राणी भवति। सः समाजे स्वकीयेच्छापूति कर्तुं शक्नोति। बालकस्य जीवने समजिकानुशासनस्य अत्यधिकं महत्त्वं वर्तते।सामाजिकानुशासनादेव सः सफलः सामाजिकप्राणी भवितुमर्हति। समाजे स्थित्वा सामाजिक गतिविधिनां सह ,संस्कृत्या सह च सम्बन्धः स्थापयित्वा स्वयं अनुशासितः भवति। विद्यालयः समाजस्य लघु रूपः भवति। अतः एव विद्यालये छात्राणां कृते अवसरः कल्प्यते सामाजिकः उन्नत्यथम्। छात्रः सामाजिक उन्नत्यथम् परिवेशसुरख्या वृक्षारोपणादि कार्याणि करोति।

वैयक्तिकानुशासनम्

वैयक्तिकमनुशासनं तदाऽरभ्यते यदा मनुष्यः पूर्णं रूपेण परिपक्व भवति। अस्यामेव अवस्थायां मनुष्यस्य पूर्णंमानसिकविकासो भवति। एवं सः कर्तव्याकत्तव्य कर्मस्वन्तः कर्तुं प्रभवति। तस्मिन् आत्मानुशासनमेतावद् विकसितं भवति यत् सः स्वीयक्रियाकलापनामुपरि पूर्णं नियन्त्रणं कर्तुमपि शक्नोति। तेन सः सुधासुद्ध्यः शिष्टा- शिष्टयोः च अन्तरं जानाति ।तदा सः आत्मनियन्रणे तत्परः भवति। एतदेव भवति वैयक्तिक अनुशासनम्

अनुशासनस्य महत्वम्-

प्रत्येकस्मिन् क्षेत्रे अनुशासनम् दृश्यते । प्रकृतिरपि अनुशूसनवद्धा विलोक्यते।

यथा- सूर्ये नियमित उदेति, ऋतवी नियमित एव परिवर्तन्ते,प्रकृतेरनुशासनपालनत्वात् सर्वत्र सामञ्जस्य वर्तते।यदि मनुष्याः अनुशासनपर्व वृद्धा भवति सः उत्तमः नागरिकाः भवति। सर्वे जनाः अनुशासनस्य नियमाः अवश्यमेव पालनीया भवेत्।

        शैशव आरम्भः वृद्धत्वं यावत् अनुशासनम् अत्यावश्यकं वर्तते। बाल्ये वयज्योष्ठ व्यक्तिनां आधारेण अनुशासनम् पाल्यते।
         अनुशासनस्य अभावेन मानवः प्रकृतिदत्तशक्तिनामुचितप्रयोगं कर्तुं न शक्नोति ।व्यक्तिगतदृष्ट्या अनुशासनम् अति महत्वपूर्णः वर्तते।यदा कस्यापि देशस्य नागरिकाः अनुशासिता भविष्यन्ति,तदा ते उन्नतिपथमानेतुं समर्थाः भविष्यन्ति।

अनुशासनस्य दर्शनिक सिद्धान्तः

अनुशासनस्य‌ पृष्ठभूमेः अवलोकनेन जानन्ति अनुशासनम् आदर्शवादः,प्रकृतिवादः,प्रयोजनवादः, अस्तित्ववादः उपरि निर्भर करोति। परन्तु पृष्ठभूमिः अवलोकनेन अनुशासनपर्व कस्यापि एकः प्रमुखं सिद्धान्तः नास्ति। परन्तु एडमस् महोदयैः अनुशासनस्य दर्शनिकः सिद्धान्तमाधारीकृत्य त्रिधा विचार प्रस्तुतः।

• दमनात्मकानुशासनम्

• प्रभावात्मकानुशासनम्

• मुक्त्यात्मकानुशासनम्

दमनात्मकानुशासनम्

इयं विचारधारा लोकतान्त्रिक उपरि निर्भरकरोति। इयं अनुशासने दण्डस्य प्रधानता वर्तते। यदा बालकानां नियमानां भङ्ग कुर्वन्ति तदा दमनात्मकः अनुशासनस्य आवश्यकता भवति। शिक्षा- जगति दमनात्मक अनुशासनम् अतीव पुरातनम् वर्तते। भारतीय- प्राचीनकालीन शिक्षा व्यवस्थायां अस्य दमनात्मकानुशासनस्य स्वरूपं द्रष्टुम् शक्यते।अत्र अध्यापकः दमनद्वारा छात्रान् पाठयति स्म। यत् छात्रः कलुषितमनसि शुद्धचिन्तनस्यारोपाथ कठोरशारीरिकदण्डः आद्रियते स्म।

       अष्टादश शताव्ध्या युरोपमहादेशस्यविद्दालयेषु अयं विचारोऽतीव स्पष्टं मन्यते। दण्डमुक्तो वालकः शीघ्रमेव विनश्यति इति। अतः विद्यालये दमनात्मकानुशासनस्य आवश्यकता वर्तते।

प्रभावात्मकानुशासनम्


इयं विचारधारा मुख्यतः आदर्शवादः उपरि भवति। आदर्शवादी जनाः विशेषतः प्रभावात्मकानुशासने श्रद्धा यच्छन्ति।एते कथयन्ति यत् अध्यापकः स्वीयव्यक्तित्वं सम्यक् निर्मायात् येन छात्राः अध्यापकस्य व्यक्तित्वम् दृष्ट्वा प्रभाविताः स्युः। एतेन अध्यापकः छात्रान् अनुशासितुं सख्यम भवति। अत्र छात्रः स्वयमध्यापकश्य बेक्तित्वं दृष्ट्वा प्रभावितः भवति। अत्र अध्यापकः सुयोग्यः , चरित्रवान् ,विचारशीलः , योग्यतासम्पन्नः तथा आदर्शचिन्तकश्च भवति।

मुक्त्यात्मकानुशासनम्

इयं विचारधारा मुख्यतः प्रकृतिवादः उपरि निर्भरः करोति। आधुनिकः मनोबईग्यानिकाः अस्य सिद्धान्तस्य प्रवर्तकाः भवन्ति। अस्य समर्थकाः दमनात्मिकां पद्धतिः प्रभावात्मिका अनुशासनपरम्परा च नानुमन्यते। एतेषां कथमस्ति यत् बालकानां व्यक्तित्वम् बिकसार्थं पूर्ण स्वातन्त्र्यं प्रदीयते मुक्त्यात्मकस्यानुशासनस्य समर्थकेषु प्रकृतिवादी रूसो हर्वट स्पेनसर् चेति द्वै स्तः। अयमपि सिद्धान्तस्तावत् सर्वथा दोषमुक्तस्तु नैव दृश्यते।

विभिन्नवादानुगुण अनुशासनम्-

• आदर्शवादानुगुणमनुशासनम्।

• प्रकृतावादानुगुणमनुशासनम्।

• व्यवहारिकवादानुगुणमनुशासनम्।

• यथार्थवादानुगुणमनुशासनम्।

विद्यालये उत्तमानुशासनस्थापनाथमुपायाः-

• छात्राध्यापकयोः पारस्परिकस्नेहः।

• स्वेत्तरदायित्वभावना।

• पारस्परिकसहयोगः।

• महापुरूषाणां गाथा कथनम्।

• पारिवारिकजीवनस्योन्नतिः।


अनुशासनम् हीनतायाकारणम्-

• कलुषित पारिवारिक वातावरणम्।

• कलुषित सामाजिक वातावरणम्।

• कलुषित विद्यालयीयवातावरणम्।

• राजनैतिकदलानां परिवारे, समाजे, विद्यालये च।

• दोशपूर्णा शिक्षापद्धतिः।


अनुशासन हीनतायाः दूरीकरणोपायाः

• पारिवारिक वातावरणस्य संरक्षणम्।

• सामाजिक वातावरणमस्य संरक्षणम्।

• विद्यालयीयवातावरणस्य संरक्षणम्।

• गुरूः -शिष्ययोः सम्बन्धः।

• आचारवन्तः शिक्षकाः विद्यालयेषु विनियोज्याः।


  एवं च जीवने अनुशासनस्य महती आवश्यकता वर्तते। छात्राणां कृते तु विशेषरूपेण अनुशासनमुपादेयमस्ति। बाल्यकाले अनुशासनद्वारेण विद्यार्थीनां संस्काराः पोषणीयाः। अन्यथा कुसंस्कारैः जीवनं नष्टं भविष्यति। अतः विद्यालयेषु विशेषरूपेण अनुशासनस्य वातावरणं निर्मितम् अस्ति। छात्राणां चरित्रंनिर्माणायमनुशासनय सर्वप्रथमं मात्रा, पित्रा ,गुरूभिश्च अनुशासने वर्तितव्यम्। तयैव तेषामुपदेशस्य प्रभावः भविष्यति।