Vikas kumar......

      • श्रवणम् उच्चारणं च - महत्तं, स्वर

व्यञ्जनानां स्थान प्रयत्नयो: ज्ञानम् !

    • श्रवणम् (Listening)

या काऽपि भाषा भवतु, तस्याः अभ्यासे अनुकरणम् अधिकतया सहकरोति भाषायाः अभ्यासाय, प्रथमम् अन्याननुकुर्यात् । एवमनुकरणमपि अत्यन्त श्रद्धया अवधानेन च करणीयम् । सम्यक् श्रवणेनैव सम्यक् अनुकरणं भवति अथ भाषाशिक्षणविषये प्राथमिकं कार्यं भवति श्रवणम् भाषायाः प्राथमिकं प्रयोजनं भावविनिमय एव । एषः भावविनिमयः अत्यन्तनैपुण्येन करणीयः । अतः श्रवण प्रथमं भाषाकौशलं भवति । एवमेव क्रमश: भाषणं, पठनं, लेखनमिति भाषाकौशलानि सन्ति । परं श्रवणकौशलमेव अन्येषां त्रयाणां कौशलानां मूलाधार । भावविनिमये अंशद्वयं विद्यते । भावग्रहणम्, भावप्रकटनञ्च । भावग्रहणे श्रवणं, पठनञ्चान्तर्भवतः भावप्रकटने च भाषणं, लेखनच भवतः ।

बालक: शब्दान् श्रुणोति । बुद्धौ स्थापयति ध्वनेरनुकरणं करोति शब्दानामुच्चारणं करोति । भाषाया अभ्यासं करोति भाषायां व्यवहरति । चतुर्विध भाषाकौशलानि श्रवणकौशले एव आधारितानि भवन्ति। श्रवणशक्तेः पटुत्वेन भावं स्पष्टतया ग्रहीतुं शक्यते। यदि भावसङ्ग्रहणं सम्यक् भवति चेत् पठनलेखने निर्दुष्टे भवतः । अतः सम्यक् श्रवणं-समीचीनभाषणे, निर्दुष्टपठने, उत्तमलेखने च उपकरोति ।

      • उच्चारणम् ....!

संस्कृतभाषाशिक्षणे उच्चारणस्य महत्त्वमत्यधिकं विद्यते । अशुद्धोच्चारणात् अनर्थो भवति । स्पष्टार्थस्य ज्ञानं न भवति । उच्चारणदोषादेव वाचने लेखने च दोषा: भवन्ति । अत एवोच्यते -

यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् ।

स्वजन: श्वजनो मा भूत् सकलं शकलं सकृच्छकृत् ॥ सकारस्य शकारत्वेनोच्चारणे योऽनर्थस्सम्भवति सोऽत्र प्रदर्शितः । अशुद्धोच्चारणम् अल्पज्ञतायाः, अयोग्यतायाः, असभ्यतायाश्च परिचायकं भवति ।

अतः बाल्यावस्थायामेव शुद्धोच्चारणस्य प्रशिक्षणम् आवश्यकं भवति ।

अशुद्धोच्चारणस्य कारणानि

1. अज्ञानम्— वर्णानां स्थानप्रयत्नाद्यनुसारम् उच्चारणस्य उचितं स्वरूपं छात्राः न जानन्ति । तथा च केचित् छात्राः श, ष, स इत्येतेषां वर्णानामुच्चारणभेदं न जानन्ति । एवमेव व ब, ऋ - र, ई-इ, ण-न इत्येतेषां वर्णानामुच्चारणे दोषं कुर्वन्ति ।

2. प्रयत्नलाघवम् – उच्चारणे परिश्रममसहमानाः छात्रा: अशुद्धोच्चारणं कुर्वन्ति । यथा - प्रसाद: परसादः, परमेश्वर: पर्मेस्वरः, रवीन्द्र : - रविन्दरः, ब्राह्मण : बरामन, रघुवंशः रगुबंसः इत्यादयः । -

3. भ्रमः भ्रमात्, प्रमादाद्वा केषाञ्चित् वर्णानामुच्चारणमन्यथा कुर्वन्ति । यथा— ज्ञानम् - ग्यानम्, यजमान: जजमानः, उत्पत्ति: उल्पत्तिः, - काक: कागः, जगदीश: जगदेश, वसन्तः बसन्तः, प्रेमचन्द्र: - प्रेमचन्द : इत्यादयः ।

4. प्रादेशिक भाषाप्रभावः - भारतस्य विभिन्नेषु प्रदेशेषु जनानां विभिन्नाः ।

उच्चारणप्रकाराः संस्कृतस्योच्चारणं दूषयन्ति । यथा दक्षिणभारते कृष्ण:-क्रुष्णः, किरुष्णः, ऋषि: रुषिः, रमा-रेमा, लक्ष्मी-लेक्ष्मी, - धवला तवला, धनं- दनम्, चटका चठका, सम्पत्तिः सम्बत्तिः, उत्सव : उल्सवः इत्यादयः ।

उत्तरभारते—लक्ष्मणः-लक्मनः, सिंह: सिंघ:, चन्द्र चन्दर्, योगी जोगी, संयोगे-संजोगे, रामायण रामायन, किरण किरन, विहार: बिहारः, स्थान-अस्थान, स्मारक - इस्मारक, अङ्गुली-उङ्गुली, सङ्घटन सङ्गठन, स्वर सुर, नमस्कार-नमष्कार ।

अन्तिममकारं नोच्चारयन्ति राम राम्, जनक- जनक्, नाम-नाम्, चतुरक्षरपदेषु द्वितीयं, चतुर्थञ्चाकारं नोच्चारयन्ति-सुमदाम-सुम्दाम्, दिव्यधाम - दिव्य्धाम् । परमात्मा पर्मात्मा इत्यादयः । पञ्जाबदेशे— सिंह सिंघ, पुरुष-पुरुख, धूर्त दूर्त, मेघ-मेग इत्यादयः।

बङ्गालदेशे–अन्तिममकारमोकारत्वेन उच्चारयन्ति । यथा— राम-रामो, जय-जयो, श, ष, स इत्येतेषामुच्चारणभेदो न गण्यते । शिक्षा शिक्खा, शक्यते शक्कते इत्यादयः ।

उच्चारणशिक्षणविधयः

स्वराणां, व्यञ्जनानाम्, अनुनासिकवर्णानां, संयुक्ताक्षराणाञ्च उच्चारणे सम्भवतां दोषाणां निवारणाय संस्कृताध्यापक: अवश्यं प्रयतेत । बालकानां श्रवणेन्द्रियस्य, जिह्वायाः, स्वरयन्त्रस्य वा दोषश्चेत् विशेषज्ञानां भिषजां साह्यं प्राप्तव्यम् । अध्यापकस्योच्चारणं शुद्धं, स्पष्टम्, अनुकरणयोग्यञ्च भवेत् । टेरिकार्डर्, लिंग्वाफोन् इत्यादिनवीनयन्त्राणामुपयोगः दोषपरिहारे सहायक: स्यात् । छात्रः स्वीयमुच्चारणं स्वयं श्रुत्वा दोषं जानीयात् । अत्र शुद्धोच्चारणस्य सम्पादनाय केचन विधयः प्रस्तुयन्ते ।

1. अनुकरणविधिः - संस्कृताध्यापकः वर्णानां शब्दानाञ्च शुद्धोच्चार बोधयेत् । छात्राः अध्यापकस्योच्चारणमनुकृत्य शुद्धोच्चारणं शिक्षन्ते ।

2. आवृत्तिविधिः – क्लिष्टानां वर्णानां शब्दानाञ्च पुनः पुनरावर्तनेन उच्चारणाभ्यासः कर्तव्यः ।

3. अवरोधवधिः–छात्राः शीघ्रभाषणे, शीघ्रवाचने च वर्णान् अस्पष्टम्,

      • स्वरव्यञ्जनानां स्थान प्रयत्नयोः....!

संस्कृतभाषायां यः वर्णसमानायः अस्ति। सः भगवता पाणिनिना तपः तप्त्वा महेश्वरात् लब्धः वर्तते, तत्र च काशिकायाः इदं पद्यं प्रमाणं विद्यते

नृत्तावसाने नटराजराजो ननाद ढक्कां नव पञ्च वारम् ।

उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शः शिवसूत्रजालम् ।।

भाषायां वाक्यानि भवन्ति, वाक्येषु शब्दाः भवन्ति शब्देषु च वर्णाः भवन्ति । अतः भाषायाः

महत्त्वपूर्णः घटकः वर्णः विद्यते । वर्णः अर्थात् अक्षरम् इति । वर्णानां समूहः वर्णमाला इति, 'वर्णमाला' इत्यत्र 'वर्णानां माला' इति वर्णमाला अर्थात् अक्षराणां यथाक्रमसूची इत्युच्यते । समान्यतः वर्णाः द्विविधाः भवन्ति

(क) स्वराः ।

(ख) व्यञ्जनानि ।

भगवता पाणिनिना अष्टाध्याय्याम् इमानि चतुर्दश सूत्राणि उल्लिखितानि

१. अइउण् ३. एओङ् ५. यवट् ७. ञमङणनम् २. ऋलृक् ४. ऐमच् ६. लण् ८. झभञ् ९. घढधष् ११. खफछठथचटतव् १३. शषसर् १०. जबगडदश् १२. कपय् १४. हल्

एतेषां सूत्राणां यः अन्तिमः वर्णः सः इत्संज्ञकः विद्यते अर्थात् तस्य गणना न भवति । अत एव नव स्वराः, त्रयस्त्रिंशत् व्यञ्जनवर्णाश्च सन्ति । आहत्य द्विचत्वारिंशत् वर्णाः सन्ति । एतेषु वर्णेषु नव स्वराः पञ्चविंशतिस्पर्शाः, चत्वारः ऊष्माणः चत्वारः अन्तःस्थाः अपि कथ्यन्ते । 1 पाणिनीयशिक्षायाः अनुसारेण वर्णानां संख्यात्रिषष्टिः, चतुष्षष्टिः वा स्वीक्रियते तथा चोक्तम्

त्रिषष्टिश्चतुष्षष्टिर्वा वर्णाः शम्भुमतेमताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥ स्वराः विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ अनुस्वारोविसर्गश्च ( क पौ चापिपराश्रितः। दुःस्पृष्टश्चेतिविज्ञेयोलृकारः प्लुत एव च ॥ एतदनुसारेण एकविंशतिस्वराः, पञ्चविंशतिः स्पर्शवर्णाः, चत्वारः अन्तःस्थाः, चत्वारः ऊष्मवर्णाः, चत्वारः 1 यमाः, जिह्वामूलीय उपध्मानीयाँ द्वौ, एकः विसर्गः, एकः अनुस्वारः, एकः दुःस्पृष्टः प्लुतलृकारश्चेति । आहत्य चतुष्षष्टिः वर्णाः भवन्ति । वस्तुतः त्रिषष्टिः एव वर्णाः किन्तु यदि दुःस्पृष्टः अपि स्वीक्रियेत तदा चतुःषष्टिर्भवन्ति । अनेन प्रकारेणापि ज्ञातुं शक्यते । तद्यथा

अ आ आ३ इ ई ई३ उ ऊ ऊ३ ऋ ऋ ऋ३ लृ लृ३ ए ए३ ऐ ऐ३ ओ ओ३ औ औ३ । लृकारस्य प्लुतभेदं विना अचः = २१ प्लुताङ्गीकारपक्षे अचः = २२। विभिन्न शिक्षाधारेण वर्णानां संख्याविषये वैमत्यं दृश्यते । परन्तु सम्प्रति द्विपञ्चाशत् वर्णानां सर्वे प्रयोगं कुर्वन्ति । ते च - अ आ आ ३ इ ई ई३ उ ऊ ऊ३ ऋ ऋ ॠ ३ लृए ऐ ओ औ ।

वर्णाभिव्यक्तिक्रमः

अन्तःकरणं संस्कारवशात् घटपटाद्यर्थान् स्ववृत्या एकबुद्धिविषयं सम्पाद्य पदार्थबोधेच्छया निजपरिणामविशेषं मनः योजयति। तचमनः जाठरमग्निम् अभिहन्ति । आहतोऽग्निम् अभिहन्ति । आहतोऽग्निः प्राणनामकं वायुविशेषं प्रेरयति । कायाग्निप्रेरितो वायुः हृदयदेशे विचरन् मन्दस्वरं जनयति, यश्च स्वरः प्रातः कालीनयज्ञकर्मोपयोगिगायत्रीनामकछन्दसा युक्तोभवति ।

सः प्राणवायुः ऊर्ध्वं प्रेरितः शिरोभावो अभिहतः सन् कण्ठताल्वादिदेशं सम्प्राप्य वर्णान उत्पादयति, तेषामुत्पन्नानां वर्णानाञ्च पञ्चधा विभागः प्रोक्तो वर्तते । वर्णज्ञाः विद्वांसःस्वरेणकालेन स्थानेन आभ्यन्तरबाह्यप्रयत्नाभ्यां च पञ्चधा वर्णभेदान् ऊचुः, स्पष्टम् उच्यमानं तं वर्णभेदं यूयं पाठकाः अपिसम्यक् जानीत इति । उक्तञ्चपाणिनिशिक्षायाम्

आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।। मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । प्रातः सेवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥ सोदीर्णो मूभिहितो वक्त्रमापद्य मारुतः । वर्णाअनयते तेषां विभागः पञ्चधा स्मृतः ॥ स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तन्निबोधत॥

निष्कर्षतः ध्वनेरुत्पत्तिप्रक्रियायां निम्नलिखितानि सोपानानि भवन्ति

१. उच्चारणात्पूर्व शब्दार्थज्ञानम् । २. अर्थज्ञानात् विवक्षया मनः प्रेरणा | ३. मनसि अनेराघातः । ४. अनेराघातात् अग्नेःस्थाने वायोः सञ्चारः । ५. वायोः हृदयस्थानं गत्वा ध्वनेरुत्पादनम् । ६. वायोः मूर्ध्नि आहत्य पुनः प्रत्यावर्तनम् । ७. मुखात् विभिन्नानां ध्वनीनामुत्पत्तिः।

(क) स्वरानुसारेणविभागः -

उच्चारणे आरोहावरोहक्रमदृष्ट्या अपि अचः' स्वरस्य त्रयो भेदाः भवन्ति, उदात्त अनुदात्त स्वरितरूपाः ।

उदात्तः

अनुदात्तः

स्वरितः

१. उदात्तस्वर:- 'उच्चैरुदात्तः' ताल्वादिस्थानेषु ऊर्ध्वभागतः निष्पन्नोऽच् उदात्तसंज्ञको भवति । यथा आ, ए, इत्यत्र उभावपि उदात्तौ।

२. अनुदात्तस्वरः- 'नीचैरनुदात्तः' ताल्वादिषु अधोभागेषु निष्पन्नः अचः' अनुदात्तसंज्ञको भवति यथा अर्वाङिति। -

३. स्वरितस्वरः - उदात्तत्वम्, अनुदात्तत्वम् इत्युभयोः यस्मिन् अचि सम्मिश्रणं भवतिसः स्वरितस्वरो भवति

यथा

कवोऽश्व रथानां न येराः । एवम् 'अचः' नवभेदाः सञ्जाताः । ते नवविधाः अचः

अनुनासिकानुनासिकभेदेन द्विधा भूत्वा अष्टादशसंख्याकाः भवन्ति ।

(ख) कालानुसारेणविभागः -

मतः अचः (स्वरवर्णस्य) त्रय भेदाः भवन्ति ह्रस्व-दीर्घ प्लुतरूपाः । -

१. हस्वस्वरः - यस्य 'अचः' उच्चारणे एकमात्रिकोञ्चारणकालः अपेक्ष्यते, सः ह्रस्वस्वरः, यथा- अ, इ, उ इत्यादयः ।

२. दीर्घस्वरः - यस्य 'अचः' उच्चारणे द्विमात्रिकोच्चारणकालः अपेक्ष्यते, सः दीर्घस्वरः, यथा आ, ई, ऊ इत्यादयः ।

३. प्लुतस्वरः यस्योच्चारणे त्रिमात्रिकोच्चारणकालः अपेक्ष्यते, सः प्लुतस्वरः, यथा- आ३ । -

(ग) उच्चारणस्थानमनुसृत्य वर्णानां विभाग:

उच्चारणानुसारेण वर्णानाम् अष्टौविभागाः सन्ति । ते च अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।

ह्वामूलं च दन्ताश्च नासिकोष्ठौच तालुच ॥ (पाणिनिशिक्षा १३ )

१. कण्ठस्थानिनः वर्णाः- 'अकुहविसर्जनीयानां कण्ठः' इति सूत्रानुसारम् अष्टादशभेदाः अवर्णः, कवर्गः, हकारः विसर्गश्च ।

२. तालुस्थानिनः वर्णाः- 'इचुयशानां तालु' इति सूत्रानुसारम् अष्टादशभेदाः इवर्णः, चवर्गः, यकारः शकारश्च

३. मूर्धास्थानिनः वर्णाः- 'ऋटुरषाणां मूर्धा' इति सूत्रानुसारम् अष्टादशभेदाः ऋवर्णःटवर्गः, रेफः, यकारश्च ।

४. दन्तस्थानिनः वर्णाः- 'लृतुलसानां दन्ताः' इतिसूत्रानुसारं द्वादशभेदाः लृवर्णः तवर्गः, लकारः, सकारश्च ।

५. ओष्ठस्थानिनः वर्णाः- 'उपूपध्मानीयानामोष्ठौ' इतिसूत्रानुसारम् अष्टादशभेदाः उवर्णः, पवर्ग:उपध्मानीयः प फ ।

६. नासिकास्थानिनः वर्णाः- 'अमङणनानां नासिका च' इतिसूत्रानुसारं ञ् म् ङ् ण् न् वर्णाः अनुस्वारश्च ।

७. कण्ठतालुस्थानिनः वर्णाः 'ओदोतौ कण्ठोष्ठम्' इति सूत्रानुसारम् एकारः द्वादशविधः ऐकारश्च द्वादशविधः। ८. दन्तोष्ठस्थानिनः वर्णाः- 'वकारस्य दन्तौष्ठम्' इति सूत्रानुसारं वकारः ।

९. जिह्वामूलीयस्थानिनः वर्णाः- 'जिह्वामूलीयस्य जिह्वामूलम्' इतिसूत्रानुसारं

(घ) प्रयत्नानुसारेणवर्णानां विभाग: -

प्रयत्नो द्विधा भवति आभ्यन्तरो बाह्यश्च । -

आभ्यन्तरप्रयत्नाः पञ्चभवन्ति स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतश्च । -

एतेषाम् आभ्यन्तरप्रयत्नानाम् अनुसारेण वर्णानां विभागः अधस्तात् प्रस्तूयते - -

१. स्पृष्टप्रयत्नः ककारादारभ्य मकारपर्यन्तं पञ्चविंशतेः स्पर्शवर्णानाम् स्पृष्टनामक आभ्यन्तरप्रयः भवति । तथा च सूत्रं कादयो मावसनाः स्पर्शाः तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् ।

२. ईषत्स्पृष्टप्रयत्न:- यणोऽन्तःस्थाः ईषत्पृष्टम् अन्तःस्थानाम् अर्थात् य र ल व इत्याख्यानां यणवर्णानाम् ईषत्सपृष्टः प्रयत्नो भवति ।

३. ईषद्विवृतप्रयत्नः- शल ऊष्माणः ईषद्विवृतम् ऊष्मणाम् अर्थात् श, स, ष, ह इत्येतेषाम् ईषद्विवृतः प्रयत्न भवति।

४. विवृतप्रयत्न:- अचः स्वराः विवृतं स्वराणाम् । अर्थात् अ इ उ इत्यादिस्वराणां विवृतप्रयत्नो भवति । ५. सम्वृतप्रयत्न:- ह्रस्व अकारस्य प्रयोगे संवृतप्रयत्नो भवति किन्तु प्रक्रियादशायां ह्रस्वस्य अकारस्यापि विवृतप्रयत्न एव । एवम् आभ्यन्तरप्रयत्नदृष्ट्या सर्वेषामपि वर्णानां विभागः कृतः ।

(ङ) बाह्यप्रयत्न:- ओष्ठादारभ्य आकाकलं यावत् मुखं कथ्यते । वर्णानामुच्चारणे मुखस्थानात् बहिर्देशे गलविवरादीनां सङ्कोचविकासरूपः यः प्रयत्नः स एव बाह्यप्रयत्नः बाह्यप्रयत्नाः एकादश भवन्ति । भाष्यकारेण एतस्य अष्टौभेदाः स्वीकृताः -

विवार: संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः

१. विवारः गलविलस्य विकासात् विवारः भवति ।

२. संवार: गलविलस्य सङ्कोचात् संवारो भवति । -

३. श्वासः वायोः आरोहावरोहक्रमः श्वासः इति उच्यते । -

४. नादः वर्णोच्चारणे ध्वनिविशेषः नादः इति कथ्यते ।

५. घोषः वर्णेन सह श्वासस्य गंभीरतया ध्वनिविशेषः घोषः इति कथ्यते । -

६. अघोषः वर्णोच्चारणे ईषत् ध्वनिरूपः अघोषः भवति ।

७. अल्पप्राणः - वर्णानामुच्चारणे तेषां तेषां स्थानानाम् अल्पप्रयोगः अल्पप्राणः इतिभवति ।

८. महाप्राणः वर्णोच्चारणे अधिकस्य वायोः शक्तेर्वा प्रयोगः महाप्राणः भवति। ...।। इति ।।