पर्यावरणीय-प्रदूषणम्

किं नाम प्रदुषणम् ?

          पर्यावरणस्य केषुचित् घटकेषु वायु़:,भूमि:,जलं, इत्यादिषु अन्ये अवांछित पदार्था: मिलित्वा तेषां भौतिक-रासायनिक-जैबिकगुणेषु यदा परिवर्तनमानयन्ति,तर्हि तेन परिवर्तनेन ते पर्यावरणिय-घटका:जीवस्य कृते हानिकारा:भवन्ति,स्वकीयमुपयोगित्वं नष्टयन्ति, पर्यावरणं प्रदुषयन्ति च। पर्यावरणे अन्येषाम् अवांछित तत्वानां मेलनं प्रदुषणं भवति।अपि च ते पदार्था एव प्रदुषका: भवन्ति।   

       

       प्रदुषणं नाम वायु-जल-भूमिषु अवांछित, जैविकं, भौतिकं, रासायनिकं च परिवर्तनम्।यत्परिवर्तनं प्राणि-मात्रस्य स्वास्थाय, सुरक्षायै, कल्याणाय च हानिप्रदं भवति।


प्रदुषणस्य प्रकारा:-

१-वायु प्रदुषणम्।

२-जल-प्रदुषणम्।

३-भूमि प्रदुषणम्।

४-ध्वनि-प्रदुषणम्।

५-वाहन-प्रदुषणम्।

६-तापीय-प्रदुषणम्।

७-विकरणीयप्रदुषणम्।

८-समुद्रीय-प्रदुषणम्।

९-औद्यगिक-प्रदुषणम्।

१०-उच्छिष्ट-प्रदुषणम्।

११-जलस्राव-प्रदुषणम्।

१२-अन्य-प्रदुषणम्।